________________
कर्मकारकप्रकरणम् ।
कर्मत्वाऽप्राप्त्या तत्र चरितार्थस्योक्तसूत्रस्य कथमपत्रादत्वमिति वाच्यम् । असति त ग्रहणे कर्तृवृत्तिव्यापारवाचकधातूपात्तफलाश्रयत्वमित्यर्थस्यैव तेन लाभेन तत्र कर्मत्वस्य दुर्वारत्वात् । असति तमग्रहणे कर्तृवृत्तिव्यापारवाचकधातूपात्तफलाश्रयस्य कर्मत्वम
त्यर्थेऽग्नेर्देवदत्तकर्त्तृवृत्युत्तरदेशसंयोगानुकूलव्यापाराऽभावानुकूलव्यापारवाचकवारिधातूपातोत्तरदेशसंयोगाश्रयत्वेन कर्मत्वं दुर्वारं स्यात् । ईप्सिततमग्रहणसत्त्वे तु प्रयोज्यत्वलाभः । ( १ ) तत्त्वञ्च प्रकृतधात्वर्थ प्रधानीभूतव्यापारप्रयोज्यप्रकृतधात्वर्थफलाश्रयत्वेनोद्देश्यत्वम् । तथाच प्रकृतधात्वर्थप्रधानीभूतव्यापारः उत्तरदेशसंयोगानुकूलव्यापाराऽभावा. ऽनुकूलव्यापारस्तत्प्रयोज्यं फलमुत्तरदेश संयोगानुकूलव्यापारस्तदाश्रयत्वं माणवकस्येति तस्यैव कर्मत्वम्, अग्नेस्तादृशफलाश्रयत्वाऽभावान्न तत्त्वमिति भावः ॥
ईप्सिततमत्व लक्षणे - फलव्यापारयोः प्रकृतधात्वर्थत्वे तुष्ट्यर्थं मापभक्षणाय मापक्षेत्रेऽश्वबन्धनस्थलेऽपि माषाणां न कर्मत्वं बन्धनप्रयोज्यभक्षणफलाश्रयत्वेऽपि भक्षणस्य बध्नात्यर्थत्वाऽभावात् । प्रयोज्यत्वनिवेशफलं गां दोग्धि पयो देवदत्त इत्यादौ विभागानुकूलव्यापाराऽनुकूलव्यापारार्थ कदुहियोगे पयसः कर्मत्वसिद्धिः । जन्यत्वनिवेशे तु न तस्य कर्मत्वं पयोनिष्टविभागस्य प्रधानीभूतव्यापारप्रयोज्यत्वेऽपि उक्त व्यापाराऽजन्यवात् । प्रयोज्यत्वञ्च साक्षात्परम्परासाधारणमिति न तस्य कर्मत्वाऽनुपपत्तिरिति भावः ॥
श्रयं विचारणा - ननु 'कर्त्तुरीप्सिततमं ' ' तथा युक्तमिति सूत्रद्वयाकरणरूपलाघवात् कर्तृनिष्टव्यापारप्रयोज्यफलसम्बन्धाश्रयः कर्मेत्यर्थकं 'कर्त्तुराप्यतमं कर्मेत्येवास्तु सूत्रम् । अग्नेर्माणवकं वारयति कूपादन्धं वारयतीत्यादौ नाभिकूपयोः कर्मत्वाऽऽपत्तिः, अग्निकूपनिष्टफलसम्बन्धस्य कर्तृव्यापारप्रयोज्यत्वाऽभावादिति चेन्न । काशीं गच्छन् पथि मृत इत्यादौ काश्याः संयोगरूपफलाश्रयत्वाऽप्राप्त्या तदर्थमीप्सिततममित्यस्य, अनीप्सितस्य संग्रहार्थं तथा युक्तमित्यस्य चाऽऽवश्यकत्वेनोक्तसूत्रस्य कर्त्तुमशक्यत्वात् । तण्डुलं पिपक्षन्मृत इत्यत्र तण्डुलस्य फलसम्बन्धाऽऽश्रयत्वाऽभावात्कर्मत्वाऽनुपपत्तेश्च । ईप्सिततममित्युक्तौ तु फलसम्बन्धप्रकारेच्छाविषयत्वात्कर्मत्वसिद्धिरिति भावः ॥
पुनरत्र विचार्यते - ननु ( २ ) यथोक्तसूत्राऽभ्युपगमे कर्तृवृत्तिव्यापारप्रयोज्यफलवत्त्वप्रकारिकेच्छानिरूपितविषयताऽऽश्रयः कर्मेत्यर्थं काशीं न गच्छतीत्यादौ काश्याः संयोगप्रकारेच्छाविषयत्वाऽभावात्कर्मत्वं न स्यादिति चेन्न । नञ्समभिव्याहारे संयोगाभावाऽनुकूलव्यापारस्यैव गम्धात्वर्थत्वेन संयोगाऽभावरूपफलाश्रयत्वेन कर्मत्वोपपत्तेः । नचैवमग्नेर्माणवकं वारयतीत्यन्नोत्तरदेशसंयोगानुकूलव्यापाराऽनुकूलव्यापारस्य नज्समभिव्याहारे वारिधात्वर्थत्वाद्दुहियोगे पयस इवाग्नेरपि प्रधानीभूतव्यापारप्रयोज्यसंयोग रूपफलाश्रयत्वापत्तिरिति वाच्यम् । कर्मत्वलक्षणे प्रधानीभूतव्यापारजन्यत्वस्यैव निवेशेनाऽदोषात् । नचैवं गां पयो दोग्धोत्यादौ पयोनिष्ठविभागस्य गोपवृत्तिव्यापाराऽजन्यत्वात्पयसः कर्मत्वं न स्यादिति वाच्यम् । ( ३ ) तस्य गोवृत्तिव्यापारजन्यत्वेऽपि गोपवृत्तिव्यापारजन्य
(१) ईप्सिततमत्वञ्चत्यर्थः ।
(२) कत्तुरीप्सिततमं कर्मेतिसूत्राङ्गीकार इत्यर्थः । (३) पयस इत्यर्थः ।
Aho! Shrutgyanam