________________
फक्किकारत्नमञ्जूषा ।
वान् करिष्यतीत्यादौ कर्मत्वाऽनुपपत्तेः । नचाऽत्र वर्तमानत्वस्याऽविवक्षणात्कथं षष्ठीति वाच्यम् । एतत्सूत्रशाब्दबोधे तदविवक्षेति तदाशयादित्यलम् ॥ ___ कर्तुः किम् । माषेष्वश्वं बध्नाति । ननु कारकाधिकाराद्वयापारलाभात्तेन कर्तुराक्षेपात् कर्तृवृत्तिव्यापारप्रयोज्यफलवत्वप्रकारिकेच्छानिरूपितविषयताऽऽश्रयः कौत्यर्थे देवदत्तो ग्रामं गच्छतीत्यादौ देवदत्तकर्तृवृत्तिव्यापारः उत्तरदेशसंयोगानुकूलरूपः तत्प्रयोज्यफलाऽऽश्रयो ग्रामो भवत्वित्याकारिका तादृशेच्छानिरूपितविषयता ग्रामनिष्ठा तादृशविषयता ग्रामनिष्ठा तादृशविषयताऽऽश्रयस्य ग्रामस्य कर्मत्वे सिद्ध कर्तुर्ग्रहणं व्यर्थमिति चेन्न । तस्य प्रकृतधातूपात्तव्यापाराश्रयकर्तृग्रहणेन सार्थक्यात् । अन्यथा माषेषु प्रसक्तमश्वं मापनाशो मा भूदित्यन्यत्र बध्नातीत्त्यर्थ के माषेष्वश्वं बध्नातीतिप्रयोगे माषभक्षणकर्तुरश्वस्य मवृत्तिव्यापारप्रयोज्यगलबिलाधः संयोगरूपफलाश्रयतया माषा भवन्वितीच्छायास्सत्त्वादधिकरणसंज्ञाम्बाधित्वा माषाणां कर्मत्वापत्तेः । प्रकृतधातूपात्तव्यापाराऽश्रयकर्तुर्ग्रहणे तु नोक्तदोषः, अश्वस्य प्रकृतधातूपात्तव्यापाराऽश्रयत्वाऽभावेनाऽग्रहणात् । न च तादृशकर्तुर्ग्रहणेऽपि पुष्टयथं माषक्षेत्रेश्वबन्धनस्थले तादृशकर्तुदेवदत्तस्यैव मवृत्तिव्यापारप्रयोज्य बन्धनाश्रयोऽश्वो भवतु, अश्वस्य गलबिलाधःसंयोगाश्रया माषा भवन्त्वितीच्छायाः सत्त्वान्माषाणां कर्मत्वं दुर्वारमेवेति वाच्यम् । प्रत्यासत्या प्रकृतधातुवाच्यफलस्यैव ग्रहणेनाऽदोषात् । यत्तु स्वारसिकार्थके माषेष्वश्वं बध्नातीति प्रयोग एव दोषस्य सम्भवान्माषेषु प्रसक्तमित्याद्यर्थे लक्षणा नावश्यिकेति केचित् , तन्न, कर्मण' ईप्सिता माषा न तु कर्तुरितिग्रन्थसंगत्यर्थं तदावश्यकत्वात् ॥
वस्तुतस्तु--प्रकृतधातूपात्तव्यापाराश्रयकर्तृग्रहणेऽपि पुष्ट्यर्थ मापक्षेत्रेऽश्वबन्धनस्थले माषाणां कर्मत्वव्यावृत्तये प्रकृतधातूपात्तफलस्य ग्रहणमावश्यकमिति तेनैव माषेषु प्रसक्तमित्याद्यर्थक माषेष्वश्वं बध्नातीति प्रयोगेऽप्युक्तदोषव्यावृत्तौ कर्तृग्रहणफलमन्वेषणीयमिति दिक् ॥
तमवग्रहणं किमिति--अवयवद्वारा समुदायस्य प्रश्नः । अर्थादीप्सिततमबग्रहणं किमर्थ (कर्तुरुदेश्यं कमें) त्येवास्तु सूत्रमिति प्रष्टुराकृतम् ॥ ___समाधत्ते-पयसौदनम्भुङ्क्त इति-यदा कृतभोजनोऽपि देवदत्तः पुनरोदनभोजने प्रवर्तते तदेदं प्रत्युदाहरणं बोध्यम् । अयम्भावः, कर्तुंरुद्देश्य कति सुत्रकरणे उक्तस्थले भोजनक्रियाकतः पयस उद्देश्यत्वात्तस्य कर्मत्वापत्तिः । ईप्सिततमबग्रहणसत्त्वे तु पयसः कर्तृवृत्तिव्यापारप्रयोज्यगलबिलाधःसंयोगरूपफलाश्रयत्वाभावान्नोक्तापत्तिः । नच पयसा
ओदनम्भुङ्क्ते इत्यादौ पयसः कर्मत्वव्यावृत्यर्थमीप्सितग्रहणमेवाऽस्तु तमबग्रहणं व्यर्थ. मेवेतिवाच्यम् । अग्नेर्माणवकं वारयतीत्यादावग्नेः कर्मत्वव्यावृत्यर्थत्वेन तस्य सार्थक्यात् । नचाऽग्नेः कर्मत्वे 'वारणार्थानामि ति सूत्रं वैयर्थ्यमापद्यतेतिवाच्यम् । तस्य सामर्थ्यात्कर्मसंज्ञाम्बाधित्वा माणवकस्यापादानसंज्ञाविधानेन साफल्यात् । नचाऽग्नौ 'वारणार्थानामि त्यस्य चरितार्थत्वे कथमपवादत्वमिति वाच्यम् । माणवकस्यापि वारिधातूपस्थाप्यसंयोगरूपफलाश्रयत्वात् । संयोगाद्यनुकूलव्यापाराभावानुकूलव्यापारस्यैव वारिधात्वर्थत्वात् । नच संयोगस्य वारिधात्वर्थकर्तृप्यापारजन्यत्वाभावात्संयोगाश्रयेऽनौ
Aho ! Shrutgyanam