________________
कर्मकारकप्रकरणम् ।
अथ कर्मकारकप्रकरणम् । कारके । अत्र प्रथमाऽर्थे सौत्री सप्तमी तेन कारकमिति तदर्थः । कारकत्वं क्रियाजनकत्वम् । करोति क्रियां निवर्तयतीतिव्युत्पत्तेर्भाष्ये दर्शनात् । ब्राह्मणस्य पुत्रं पन्थान पृच्छतीत्यादौ ब्राह्मणस्य न कारकत्वं तस्याऽन्यथासिद्धत्वेन क्रियाजनकत्वाऽभावात् । कारकाणां क्रियाजनकत्वादेव तेषां क्रियायामेवाऽन्वयः । क्रियाजनकमिति ज्ञाते का सा क्रियेत्याक्तानोदयेन क्रियाया जनकाकांक्षया च कारकाणां क्रियायामन्वयस्यैवौचित्यमिति तदाशयः । न च क्रियाशब्दस्य प्रधानक्रियायां मुख्यत्वेन कर्मादिकारकाणां प्राधानक्रियाऽनिर्वर्तकत्वात्कथं तेषां कारकत्वमिति वाच्यम् । सकलकारकाणां स्वस्वनिष्टफलोत्पत्यनुकूलक्रियाद्वारा प्रधानक्रियानिष्पादकत्वेन तदुपपत्तेः । न च जनिष्यमाणपुत्राय गां दास्यामीत्यादौ सम्प्रदानत्वं न स्यात्तस्येदानीमसन्निहितत्वेन कारकत्वाऽभावादिति वाच्यम्। असन्निहितसम्प्रदानस्यापि दातृबुद्धिस्थत्वावश्यकत्वात्स्वज्ञानस्य पूर्वकालवृत्तित्वेनैव क्रियाजनकत्वात् । यथा यागस्य साक्षात्स्वर्गाव्यवहितपूर्ववृत्तित्वाऽभावेऽपि परमाऽपूर्वद्वारा स्वर्गजनकत्वं तथाऽसन्निहितसम्प्रदानजन्यं यत्तद्विषयकं तज्ज्ञानक्रियायाऽव्यवहितपूर्वकालवृत्तित्वेन सम्प्रदानस्यापि क्रियाजनकत्वमिति भावः । एवं स्तोकम्पचतीत्यादौ फलस्यापि स्वज्ञानद्वारा व्यापारजनकत्वेन कारकत्वात्कर्मत्वमुपपन्नम् । अन्यथा क्रियाजनकस्य कारकत्वात्फलस्य तत्वाऽभावात्कर्मत्वं न स्यादिति भावः ।।
क्रियाऽन्वयित्वं कारकत्वमिति नाऽभ्युपगन्तव्यं ब्राह्मणस्य पुत्रं पन्थानं पृच्छतीत्यादौ पुत्रद्वारा ब्राह्मणस्य क्रियाऽन्वयित्वेन कारकत्वाऽपत्तेः । न च साक्षात्क्रियाऽन्वयित्वमिति तल्लक्षणस्वीकारे ब्राह्मणस्य साक्षात्कियाऽन्वयित्वाऽभावादुक्ताऽऽपत्त्यभावादिदमेव तल्लक्षणमस्त्विति वाच्यम् । तथा सति मातुः स्मरतीत्यादौ मातुः स्मरणक्रियायां साक्षादन्वयेन कारकत्वाऽऽपत्तेः । अतः पूर्वोक्तलक्षणमेव साधु, एवञ्च मातुः क्रियाजनकत्वेनाऽन्वयित्वाऽविवक्षणेन नोक्ताऽऽपत्तिलेशोऽपीति भावः ॥
कर्तृरीप्सिततमं कर्म । कर्तृरिति 'क्तस्य च वर्तमाने' इति कर्तरि षष्ठी । ईप्सिततममिति आप्नोतेः सनि द्वित्वे 'आपज्ञपृधामीदि' त्याकारस्येत्वे 'अत्र लोपोऽभ्यासस्ये' त्यभ्यासलोपे 'मतिबुद्धिपूजार्थेभ्यश्च' इति वर्नमाने ते ततः 'अतिशायने तममिष्टनाविति तमपि सिद्धम् । अत्र सूत्रे मतिरिच्छा न बुद्धिः, पुनर्बुद्धिग्रहणात् । अत्रेप्सितशब्दो नाsभिप्रेतपरः किन्तु क्रियापरः 'वारणार्थानामिति सुत्रभाष्यकैयटयोस्तथैव दर्शनात् । एवञ्च कप्तमिष्यमाणं कर्मेति तदर्थः। आप्तिश्चात्र सम्बन्धो न तु व्याप्त्यर्थकः । स च सम्बन्ध उपस्थितत्वात् कर्तृपदार्थाऽविशेषणीभूतव्यापारद्वारक एवं गृह्यते। उपस्थितपरित्यागेऽनुपस्थितकल्पने मानाऽभावात् । एवञ्च का स्वनिष्ठव्यापारप्रयोज्यफलेन सम्बन्धुमिष्यमाणमित्यर्थः । यथा तण्डुलं पचतीत्यादौ(१)( व्यपदेशिवद्भावेन ) फलस्यापि स्वसम्बन्धित्वाकर्मत्वसिद्धिः । अत्र क्तप्रत्ययोपात्तवर्तमानत्वं न विवक्ष्यते तथा सति कटं कृत
(१) व्यपदेशिवभावेनेति । व्यपदशिवदेकस्मिन्निति परिभाषास्वरूपम् । यथा ससहाये मुख्यव्यवहारो भवति तथैकस्मिन्नसहायेऽपि भवतीत्यर्थः ।
Aho! Shrutgyanam