________________
फक्किकारत्नमञ्जूषा। प्रतिपादिता इति तेषामभिधानाय पुनर्विभक्तिर्नावश्यिका । यथा घटोऽस्ति कलश इति न भवति, इत्यभिप्रायकोक्तन्यायविरोधो दुरि इति वचनग्रहणमावश्यकम् । न च वचनग्रहगसत्त्वेऽप्युक्तन्यायविरोधो दुरि इति वाच्यम् । सामर्थ्यादुक्तन्यायबाधेन विरोधपरिहा. रात् । नहि तद्ग्रहणमन्तरेष्टसिद्धिरिति भावः । नचैकत्वविशिष्टे एकत्वान्तराऽन्वयार्थमेकवचनमस्त्विति वाच्यम् । प्रातिपदिकप्रतिपादितसंख्याविशिष्टे संख्याऽन्तराऽभावेनैकवच. नोत्पत्तेरसम्भवात् । न च तर्हि एकादिशब्देभ्यो द्विवचनादिकमुत्पद्यतामिति वाच्यम् । अनन्वितार्थकविभक्तिकल्पनाऽपेक्षयान्वितार्थकविभक्तिकल्पनस्यैव न्याय्यत्वेन द्विवचनादेरनुत्पत्तेः । न च (अपदं न प्रयुञ्जीते) ति भाष्यसिद्धान्तादेकवचनादिसिद्धौ वचनग्रहणं व्यर्थमिति वाच्यम् । सत्येवं तस्याऽनावश्यकत्वात् । ( नाऽसूया तत्र कर्तव्ये ) ति भाप्यसिद्धान्ताद्वयाख्यानात्करणं वरमिति प्राचीनसिद्धान्ताच्च कर्त्तव्यमेव वचनग्रहणमिति केचिदिति दिक् ॥
ननु हिमानीन्द्राणीत्यादिभ्यः प्रातिपदिकार्थमात्रे प्रथमा भवति, सा च न सम्भवति महत्त्वपुंयोगयोराधिक्यादिति चेन्न । (१)(लिङ्गविशिष्ट), परिभाषया तदुपपत्तेः । प्रातिपदिकार्थमात्र इत्यत्र प्रातिपदिकपदस्य प्रातिपदिकप्रकृतिकलिङ्गबोधकप्रत्ययस्याऽपि बोधकत्वेन यस्माल्लिङ्गबोधकप्रत्ययान्तात्प्रथमोत्पत्तिरभिप्रेता तज्जन्यनियतोपस्थितिकोऽर्थी विवक्षितः स च प्रकृतेऽस्तीति भावः ॥
नागेशास्त-प्रातिपदिकार्थशब्देन यस्माच्छन्दात्प्रथमाविधानं तच्छब्दप्रवृत्तिनिमित्तस्य तदाश्रयस्य च ग्रहणम् । तस्य च मुख्यस्येव आरोपिततदाश्रयस्यापि ग्रहणम् । प्र. वृत्तिनिमित्तप्रकारकारोपविशेष्यस्यापीति तदर्थः । प्रातिपदिकार्थशब्देनाऽऽरोपिततदाश्रयस्य ग्रहणादेव गोपीत्यादौ गोपत्वप्रकारकारोपविशेष्यार्थबोधकत्वेऽपि प्रथमासिद्धिः। (२)अन्यथोक्तप्रयोगे गोपत्वरूपप्रवृत्तिनिमित्तस्य प्रातिपदिकार्थशब्देन ग्रहणात्तस्य तत्राऽसत्वात्सा न स्यात् । प्रातिपदिकार्थपदेन प्रवृत्तिनिमित्ततदाश्रययोरेव ग्रहणादेव सूत्रे लिङ्गग्रहणस्य सार्थक्यम् । अन्यथा 'स्वमोनपुंसकादित्यादिशास्त्रप्रामाण्याल्लिङ्गस्यापि प्रातिपदिकजन्योपस्थितिविषयार्थत्वेन तस्य स्पष्टमेव वैयर्थ्य स्यात् । लिंगस्य प्रातिपदिकजन्योपस्थितिविषयार्थत्वादेव 'स्त्रियामिति सुत्रे स्त्रीत्वे द्योत्ये इत्यर्थो भाष्ये सिद्धान्तितः । न च प्रवृत्तिनिमित्ततदाश्रययोः प्रातिपदिकार्थपदेन ग्रहणे हिमानी मृडानीत्यादौ प्रथमा न स्यान्महत्वपुंयोगयोराधिक्यादिति वाच्यम् । महत्वविशिष्टहिमत्वस्याऽऽरोपितमृडत्वस्य च प्रवृत्तिनिमित्तस्य तत्र सवादित्यलम् ॥
इति कर्तृकारकप्रकरणम् ।
(१) लिङ्गविशिष्टेति । प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि प्रहणमिति परिभाषास्वरूपम् । (२) आरोपिततदाश्रयस्य प्रातिपदिकार्थपदेनाऽप्रहणे सतीत्यर्थः ।
Aho ! Shrutgyanam