________________
कर्तृकारकप्रकरणम् ।
स्यैव प्रमाणत्वात् । अयं विशेष्यविशेषणभावो द्विविधः, एकः, यत्र भेदः संसर्गत्वेन भा. सते तत्र तत्सम्बन्धावच्छिन्नः, द्वितीयो यत्र समानविभक्तिकनामार्थयोरन्वयस्तत्रेतरसम्ब. न्धाऽनवच्छिन्नः । नच विशेष्यविशेषणभावस्य वाक्यार्थत्वेन बहिरङ्गत्वात्तेन प्रथमप्रवृ. त्तसंस्काराऽबाधेन घटम्पश्यतीत्यादावपि कर्मत्वस्य क्रियासापेक्षत्वेन वाक्यार्थत्वात्प्रथमाऽऽपत्तिरिति वाच्यम् । सत्येवं 'कर्मणि द्वितीये' त्याद्यनुशासनवैयापत्तः । एवञ्च द्वितीयादेदेंशस्य प्रथमयाऽवरुद्धत्वादस्यास्ताभिर्बाधेन न प्रथमाऽऽपत्तिशंकाकलंककणि. केति भावः ॥
एवञ्च नियतोपस्थितिकत्वरूपप्रातिपदिकार्थत्वस्वीकारेण यत्फलितन्तदाह-अलिङ्गा नियतलिंगाश्च प्रातिपदिकार्थमात्रस्योदाहरणमिति । अलिंगा असत्वभूतत्वेन लिङ्गादियोगाऽभाववन्त उच्चरित्याद्यव्ययशब्दा इत्यर्थः । वासुदेव-लक्ष्मी-ब्रह्माऽऽद्यर्थबोधकाः कृष्ण-श्री-ज्ञानादयः शब्दा नियमेन पुं-स्त्री-क्लीबानुपस्थापयन्तीति भावः ॥
ननु द्रोणादीनाम्परिमाणमर्थ इति तेभ्यः प्रातिपदिकार्थमात्र एव प्रथमासिद्धौ परि. माणग्रहणं व्यर्थमिति चेन्न । मूलोक्तार्थलाभाय तस्याऽऽवश्यकत्वादित्यत आह-परिमा. णमात्रेद्रोणो व्रीहिरिति । अयम्भावः, सूत्रे परिमाणग्रहणसत्त्वे तत्र द्रोणशब्दात्प्रथमाविधानेन परिमाणस्य प्रत्ययार्थत्वात्तत्र प्रकृत्यर्थस्य द्रोणस्याऽभेदेनाऽर्थादितरसम्बन्धानव. च्छिन्नविशेषणविशेष्यभावसंसर्गेणाऽन्वयः, प्रत्ययार्थस्य परिमाणस्य परिच्छेद्यपरिच्छेदकभा. वेन ब्रीहावन्वयः, तथाच द्रोणाऽभिन्नं यत्परिमाणं तत्परिच्छिन्नो व्रीहिरित्यर्थः फलितः, परिमाणग्रहणाऽभावे प्रातिपदिकार्थे प्रथमाविधानात्प्रातिपदिकार्थस्य प्रत्ययार्थत्वात्तत्र द्रो. णस्याऽभेदाऽन्वयः प्रत्ययार्थस्य च तस्योक्तसम्बन्धेन बीहावन्वयस्तथा च द्रोणाऽभिन्नो बीहिरिति स्यात्परमेतद्वाधितं ( नामार्थयोरभेदातिरिक्तः सम्बन्धोऽव्युत्पन्नः ) इति व्युत्पत्तिविरोधात् । इति मूलोक्तार्थलाभार्थं परिमाणग्रहणमावश्यकमिति भावः । नचोक्तव्युत्पत्तो किम्प्रमाणमिति वाच्यम् । भेदसंसर्गावच्छिन्ननामार्थनिष्टप्रकारतानिरूपितविशेष्यतासम्बन्धेन शाब्दबुद्धित्वावच्छिन्नं प्रति विशेष्यतासम्बन्धेन प्रत्ययजन्योपस्थितिः कारणमिति कार्यकारणभावस्यैव प्रमाणत्वात् । अत एव राज्ञः पुरुष इत्यत्र भेदसम्बन्धावच्छिन्नराजनिष्टप्रकारताकपुरुषपदार्थनिष्ठविशेष्यताकशाब्दबुद्धौ डस्प्रत्ययजन्योपस्थितेः कारणत्वाद्भेदसंसर्गको बोधो भवति । न हि भवति राजा पुरुष इत्यत्र तादृशो बोधः, उक्तसंसर्गकबोधे डस्प्रत्ययजन्योपस्थितेः कारणत्वात्तस्याऽत्राऽसत्त्वात् । वैयाकरणैर्नाऽभेदस्य संसर्गत्वमंगीक्रियते । तस्य संसर्गत्वे नीलो घट इत्यादौ पष्ट्यापत्तिः । विशेष्यविशेषणभावे तु न तदापत्तिः । तस्य बोधसामान्यसामग्रीलभ्यत्वेनाऽनन्यलभ्यत्वात् । राहोः शिर इत्या - दावौपाधिकभेदमादाय षष्ठयुपपादनपरभाष्यप्रामाण्यात्तस्य संसर्गाऽभावत्वं कल्प्यत इति भावः ॥
वचनं किं संख्येति । ननु पञ्चकं प्रातिपदिकार्थ इति नये संख्याया अपि प्रातिपदि. कार्थत्वात्तत्रैवैकादिशब्देभ्योऽपि प्रथमासिद्धौ सूत्रे वचनग्रहणं व्यर्थमिति चेन्न । उक्तार्थानामप्रयोग इति न्यायविरोधेनैकादिशब्देभ्यः प्रातिपदिकार्थे प्रथमाऽप्राप्त्या तदर्थ मिह वचन. ग्रहणस्याऽऽवश्यकत्वेन सार्थक्यात् । एकत्वाद्यर्थेषु विभक्तिर्विधेया ते चाऽ र्थाः प्रकृत्यैव
Aho ! Shrutgyanam