________________
फक्किकारत्नमञ्जूषा। ननु (१)स्वार्थद्रव्यलिङ्गसंख्याकारकेतिपञ्चविधः प्रातिपदिकार्थ इतिपक्षे स्वार्थद्रव्यलितित्रिविधप्रातिपदिकार्थपक्षे च कृष्णादिशब्दे लिङ्गस्यापि प्रातिपदिकार्थत्वाल्लिङ्गग्रहणं व्यर्थमित्यत आह-नियतोपस्थितिकः प्रातिदिकार्थ इति । निपूर्वकयमधातोापकत्वमर्थः । तथा च नियता व्यापिका उपस्थितिर्यस्य स नियतोपस्थितिकः, यस्मिन्प्रातिपदिके उच्चारिते यस्यार्थस्य नियमेनोपस्थितिः स प्रातिपदिकार्थः । अर्थात् (२)नियतोपस्थितक प्रातिपदिकार्थः । नियमेनेत्यस्य व्यापकत्वेनेत्यर्थः । तत्त्वञ्च तत्समानाधिकरणाऽत्यन्ताऽभावीयप्रतियोगिताऽनवच्छेदकधर्मवत्त्वम् । स्वविषयकश्रावणप्रत्यक्षसमवायित्व-स्वविपयकशक्तिज्ञानसमवायित्वरूपोऽधिकरणतानियामकः सम्बन्धो बोध्यः। (३)एवञ्चानियतलिङ्गकेभ्यस्तटादिशब्देभ्यो लिङ्गस्या निक्तोपस्थितिकत्वाऽभावेन प्रातिपदिकार्थपदेनाऽग्रहणान्न ततः प्रथमोत्पत्तिरिति तदर्थमावश्यकं लिङ्गग्रहणमिति । तटः, तटी, तटमित्या. दौ तटादिशब्दानां पुंस्त्व-स्त्रीत्व-क्लीबत्वबोधकतत्तत्प्रत्ययसमभिव्याहारात्सकललिंग. बोधकत्वे ततः कस्यापि लिंगस्य नियतोपस्थितिकत्वाऽभावात्तद्बोध्यलिङ्गस्य प्रातिपदिकार्थपदेनाऽग्रहणात्प्रथमाऽनुत्पत्त्या तदर्थ लिङ्गग्रहणस्याऽऽवश्यकत्वमिति भावः । नव नी. लरूपवत्परकस्य कृष्णशब्दस्य नियतलिङ्गत्वाऽभावात्ततः प्रथमा न स्यादिति वाच्यम् । वासुदेवार्थकस्य तस्य नियतलिङ्गत्वात् । कृष्णत्व-कृष्णसमवायपुंस्त्वादिनियतोपस्थितिक इति बोध्यम् । नच मञ्चाः क्रोशन्ति, सिंहो माणवक इत्यादौ मञ्चस्थकर्तृकाऽऽह्वानरूपार्थस्य सिंहादिसशरूपार्थस्य च लक्ष्यार्थस्य (४)शक्यार्थरूपप्रातिपदिकार्थेनाऽसंग्रहात्प्रथमा न स्यादिति वाच्यम् । शक्यार्थे पदं साधुत्वेनान्वाख्याय पश्चात्पदान्तरसमभिव्या . हारात्तात्पर्य्याऽनुपपत्त्या लक्षणाङ्गीकारेणाऽदोषात् । शक्यतावच्छेदकारोपस्यैव लक्षणात्वेन व्यवहाराच्च । लिङ्गमात्रे इति । लिंगस्यैवाधिक्येति तदर्थः । नच नीलो घटः, वीरः पुरुष इत्यादौ विशेष्यविशेषणभावस्याऽधिकस्य भानसत्त्वेन लिङ्गस्यैवाऽऽधिक्याऽभावात्प्रथमा न स्यादिति वाच्यम् । विशेष्यविशेषणभावस्य वाक्यार्थत्वेन बहिरङ्गत्वात्स्वा. र्थमात्रनिमित्तप्रथमप्रवृत्तप्रथमारूपसंस्कारस्य तेन बाधाऽयोगात् । नच तस्य वाक्यार्थत्वे किम्प्रमाणमिति वाच्यम् । ( यत्राऽऽधिक्यं स वाक्यार्थः ) इति प्रकृतसूत्रस्थभाष्योक्त (१) तदुक्तम्
एकं द्विकं त्रिकं चाथ चतुष्कं पञ्चकं तथा ।
नामार्था इति सर्वेऽमी पक्षाः शास्त्रे निरूपिताः ॥ (२) तत्त्वञ्च, उच्चारितप्रातिपदिकसमानाधिकरणात्यन्ताभावाप्रतियोगिबोधनिरूपितविषयताश्रयत्वम् । लक्षणसमन्वयश्चेत्थम् । उच्चारितघटरूपप्रातिपदिकसमानाधिकरणो योऽत्यन्ताभावः स च, न घटो नास्तीत्याकारकोऽपितु पटो नास्ति मठो नास्तीत्याकारक इति ता. दृशाभावस्य न घटविषयको बोधः प्रतियोगी, अपि तु पटविषयको मठविषयकश्चैव तादृश इत्युक्ताभावाप्रतियोगिबोधो घटीयो बोधः (घट इत्याकारकः ) तन्निरूपितविषयता घटे तदाश्रयत्वं तस्यैवेति प्रातिपदिकार्थत्वं तस्य सिद्धमिति भावः ।
(३) नियतापस्थितिकरूपप्रातिपदिकार्थस्य प्रहणे चेत्यर्थः । (४) शक्यार्थरूपेत्यादि । लक्ष्यार्थस्य नियतोपस्थितिकत्वाऽभावादिति भावः ।
Aho! Shrutgyanam