________________
फकिकारत्नमञ्जूषा।
श्रीशैलराजतनयैकरदाङ्किताई मन्दाकिनीसतरलीकृतसजटालिम् । बालेन्दुरश्मिपरिशोभितभालदेशं श्रीविश्वनाथमनिशं समुपास्महे तम् ॥ १ ॥ कारुण्यपूर्णहृदयां विधुखण्डभूषां देवीं सुरासुरसमर्चितपादपद्माम् । सृष्ट्युद्भवस्थितिलयैकनिदानभूतां दुर्गा श्रिया विलसितां जननों नमामः ॥ २ ॥ प्रणम्य गुरुपादाब्जं निधाय हृदये च तत् । फक्किकारत्नमञ्जूषाऽपरो भागो वितन्यते ॥ ३ ॥
अथ कारकप्रकरणम् ।। 'स्वौजसमौडिति सूत्रेण विहितानां सुपामर्थविशेषे व्यवस्थाम्प्रदर्शयितुमाह-प्रातिपदिकार्थेति । (१)अस्यापि सूत्रस्य क्रियायोग एवं प्रवृत्तिः । (२)अत एव (तिङ्समानाधिकरणे प्रथमे) ति वार्तिकं सङ्गच्छते । (३)नचैवं भूतले घट इत्यादौ प्रथमा न स्यात्क्रियायोगाऽभावदिति वाच्यम् । तत्राऽप्यन्ततोऽस्तिक्रियायाः सत्त्वात् । यत्र काचन क्रिया नास्ति तत्राऽप्यस्तिभवतिविद्यतीनां सत्तेति भाष्योक्तः । नच त्रयः काला इत्यादी कस्या अपि क्रियाया असत्वादध्याह मशक्यत्वाच्च प्रथमा न स्यात् । न च सन्तीतिक्रियामादाय तसिद्धिरिति वाच्यम् । कलत्रये वर्तमानत्वस्य बाधेनोक्तक्रियाऽध्याहारस्याऽसम्भवादिति वाच्यम् । वर्तमानकालवृत्तित्वविशिष्टज्ञाने कालत्रयविषयकत्वस्याऽक्षतत्वेन ज्ञायन्ते इति क्रियाऽध्याहारसम्भवात् । यद्वा, सन्तीत्येवाऽध्याहार्यः, प्रारब्धाऽऽपरिसमाप्तिक्रियाऽऽश्रयत्वस्य वर्तमानत्वेन कालत्रयस्य सृष्टिप्रारब्धापरिसमाप्तिक्रियाऽऽश्रय. त्वरूपवर्तमानकालिकसत्तात्वविशिष्टत्वे बाधकाऽभावात् । आख्यातार्थकादिनाऽभेदान्वयेन प्रथमान्तार्थस्य क्रियायोगो बोध्यः । एवञ्च प्रथमान्तार्थस्याऽपि क्रियाजनकत्वात् (४)अस्याः (१)कारकविभक्तित्वेन भाष्ये व्यवहारः ॥
(१) प्रथमाया न कारकविभक्तित्वमिति वादिमतं दूषयितुमाह-अस्यापीति। (२) एतत्सूत्रस्यापि क्रियायोग एव प्रवृत्तरेवेत्यर्थः । (३) एतत्सूत्रस्य क्रियायोग एव प्रवृत्तावित्यर्थः। (४) प्रथमाया इत्यर्थः ।
(५) कारकत्वञ्च, क्रियानिष्ठविशेष्यतानिरूपितप्रकारतासमानाधिकरणविशेष्यतानिरूपिता ऽभेदसम्बन्धावच्छिन्नप्रकारताश्रयत्वम् । तादृशप्रकारताप्रयोजकपदोत्तरत्वं कारकविभक्तित्वम् । एवञ्च देवदत्तो गच्छतीत्यादौ देवदत्तस्य कारकत्वं तदुत्तरविभक्तेश्च कारकविभक्तित्व. मुपपन्नम् , तथा हि गमन क्रियानिष्टविशेष्यतानिरूपिता या प्रकारतासमानाधिकरणा विशेष्यता साच तिङर्थकर्तृनिष्ठा तादृशविशेष्यतानिरूपिताऽभेदसम्बन्धावच्छिन्नप्रकारता देवदत्तनिष्ठा तदाश्रयः स एवेति तस्य तत्त्वमुपपन्नम् । उक्तसम्बन्धावच्छिन्नप्रकारताप्रयोजको देवदत्तस्तदुत्तरत्वं प्रथमाया इति तस्या अपि तत्त्वमुपपन्नमिति भावः ।
Aho! Shrutgyanam