________________
तत्पुरुषसमासप्रकरणम् ।
sarपि हेतोः शेषत्वविवक्षया षष्ठीत्येनेनैव समाससिद्धावेतदर्थमपि तदनावश्यकमेवेति वा - च्यम् । उक्तरीत्या समासोपपत्तावुक्तस्वरसिद्ध्यापत्तेः । न च सदृशप्रतिरूपयोः सादृश्ये इत्यनेनैव स्वरसिद्धिरिति वाच्यम् । तत्र सादृश्यग्रहणेन तस्योपमानबोधकपूर्वपद के एव प्रवृत्तेः ।
४७
वस्तुतस्तु - भोजनेन कृतः सदृश इत्यर्थे (तृतीया तत्कृतार्थेनेति ) ( तत्पुरुषे तुल्याथें)ति सूत्राभ्यां समासस्वर सिद्धयुपपादने तु व्यर्थमेव सदृशग्रहणमिति ध्वनितं प्रकृतसूत्रस्कैटे इत्यलमतिविस्तरेण ॥
मिश्रग्रहणे सोपसर्गस्याऽपि ग्रहणमिति - पणबन्धेनैकाथ्यं सन्धिस्तस्मिन् गम्यमाने सति अनुपसर्गतृतीयान्तात्परं इत्युत्तरपदमन्तोदात्तमित्यर्थ के 'मिश्रं चानुपसर्ग मसन्धावि' ति सूत्रे (समासप्रत्ययविधौ प्रतिषेधः ) इत्यनेन तदन्तविधिप्रतिषेधात्सोपसर्गेण समासाऽप्राप्त्याऽनुपसर्गेणैव समाससिद्धौ व्यावर्त्याऽभावाद्वयर्थमनुपसर्गग्रहणमुकमर्थ ज्ञापयतीति भावः ॥
ननु (कर्तृकरणे कृतेत्यस्य कर्तृकरणयोरर्थयोर्विहिततृतीयान्तस्य बहुलं समास इत्यध प्रत्ययग्रहणपरिभाषया निर्विशिष्टभिन्नस्य कृदन्तत्वाऽभावेन नखनिर्भिन्न इत्यत्र समासो न स्यादत आह— कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणमिति - - यत्र गतिकारकसमभिव्याहृतं कृदन्तं तत्र गतिकारकसमभिव्याहृतस्यैव कृदन्तस्य ग्रहणमपिशब्दात्तदसमभिव्याहृते दन्ते केवलस्याऽपि तस्य ग्रहणमिति तदर्थः । तथा च, अवतरणदलो कोदाहरणे नीरूपगतिविशिष्टस्य भिन्नस्य कृदन्तत्वात्समाससिद्धिरिति सर्वमनवद्यमिति भावः ॥
"
बहुलग्रहणं सर्वोपाधिव्यभिचारार्थमिति - बहूनर्थान् लातीति बहुलमिति बहुलपदस्यार्थात् कर्तृकरणयोर्विहितस्यापि कच्चिन्न समासः । क्वचिद्विभक्त्यन्तरस्याऽपि समासः । दात्रेण लूनवान्, दात्रेण छिन्नवान् हस्तेन कुर्वन्नित्यादीन्याद्यस्योदाहरणानि । पादहारकः, गलेचोपक इत्यादि द्वितीयस्य । हियते इति हारकः, बाहुलकात्कर्मणि पादाभ्यां हारकः पादहारकः । पादाभ्यामित्यपादानपञ्चम्यन्तस्य समासः | चोपयतीति चोपकः, हेतुमण्ण्यन्ताच्चुप मन्दायां गतावित्यस्मात्कर्मणि ण्वलू । गले चोपको गलेचो - पक:, (अमृर्धमस्तकादि ) ति सप्तम्या अलुक् ॥
ननु सूत्रे सुपेत्यधिकारात्तिङन्तेन समासाऽनतिप्रसक्त्या कर्तृत्वकरणत्वयोः क्रियानिरूपित्वेन कर्त्राद्याक्षिप्तक्रियाबोककृदन्तेनैव समासलाभेन व्यावर्त्याऽभावात्कृद्ग्रहणं व्यर्थमित्याशयेनाशङ्कते कृतेति किमिति ।
K
समाधत्ते - काष्ठैः पचतितरामिति - कर्तृत्वकरणत्वयोः क्रियानिरूपितत्वात्तद्वाचकबन्तस्य तद्धितान्तघटितस्याऽपि सम्भवात्तेनाऽपि समासे प्रत्युदाहरणभूतोक्तप्रयोगे समासाssपत्तिरैवेति तद्वारणाय कृत्ग्रहणमावश्यकमिति भावः | तेनैव समासो यथास्यान्न सुबन्तेनेत्यर्थं कृद्ग्रहणं प्रत्युदाहरणे ज्ञानजन्तादिभिखि बहुलग्रहणात्समासवारणं शक्यमिति केचिदित्यलम् ॥
चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः-- अत्र तदर्थपदं तस्मै इदं तदर्थमित्यर्थक तच्छब्देन सन्निष्कृष्टत्वाच्चतुर्थ्या परामर्शः । तस्याश्च प्रत्ययत्वात्प्रत्ययग्रहणपरिभाषया तद्
Aho! Shrutgyanam