Book Title: Fakkika Ratna Manjusha
Author(s): Kanaklal Thakur
Publisher: Harikrishna Nibandh Bhawan Benaras

View full book text
Previous | Next

Page 191
________________ तत्पुरुषसमासप्रकरणम् । अथ तत्पुरुषसमासप्रकरणम् । ननु (तत्पुरुष) इत्यधिकारसूत्राऽनन्तरं (संख्यापूर्वो द्विगुश्चे)तिसूत्रकरणाच्चकारबलेन द्विगुतत्पुरुषयोःसमावेशः स्यात् । न च चकारस्योक्तसंज्ञाद्वयपर्यायार्थत्वेन समुच्चया. र्थत्वाऽभावात् कथमुभयोः समावेशः स्यादिति वाच्यम् । (संख्यापूर्वो द्विगुरि)ति योगं विभज्य पूर्वेण (तद्धितार्थोत्तरपदसमाहारे चे)त्यत्रोक्तस्य संख्यापूर्वस्य तत्पुरुषसंज्ञाविधानसामार्थ्यादेव पर्यायत्वसिद्धौ चकारस्य संज्ञाद्वयसमावेशार्थत्वाक्षतेः । एवञ्च द्विगुश्चेति सूत्रमनावश्यकमेवेत्याह-इदं सूत्रं त्यक्तुं शक्यमिति । द्विगुश्चेति सूत्रमित्यर्थः । ननु द्विगोस्तत्पुरुषत्वे किम्फलमित्यत आह-समासान्तः प्रयोजनं पञ्चराजमिति । पञ्चानां राज्ञां समाहार इति विग्रह (राजाहः सखिभ्यष्टच) इति टच् । न च (अकारान्तोत्तरपदो द्विगुः स्त्रियामिष्टः) इत्यनेन टजन्तोत्तरपदस्य द्विगोः पञ्चराजस्य स्त्री. त्वबोधनेन टित्वान्डीप दुर्वार इति वाच्यम् । टचः समासस्यैवाऽन्ताऽवयवत्वं न तूत्तरपदस्येति उत्तरपदस्याऽकारान्तत्वाऽभावादुक्तवात्तिकेन स्त्रीत्वाऽबोधनेन ङीपोप्राप्तेः । न च समासाथै यदुत्तरपदं तदन्तस्यैव समासान्तत्वमित्यर्थके समासार्थोत्तरपदान्ताः समासान्ता इति पक्षे द्विगोरकारान्तोत्तरपदत्वेन स्त्रीत्वादुक्तदोषस्तदवस्थ एवेति वाच्यम् । अत्र पक्षे पात्रादित्वान्नेत्यनेनैव दोषोद्धारादित्यलम् । पञ्चराजीति काशिकायामुदाहृतं न युक्तमिति हरदत्तः । केचित्त पात्रादित्वान्डीबभावकल्पने विनिगमकाऽभावात्काशिकोकोदाहणं युक्तमेवेत्याहुरिति दिक् ॥ द्वितीया श्रितातीतपतितेति-द्वितीयाया प्रत्ययत्वेन प्रत्ययग्रहणपरिभाषया तदन्तविधिः । श्रितादीनां सुबन्तत्वाऽसम्भवेन स्वप्रकृतिके लक्षणा । तथा च द्वितीयान्तं श्रितादिप्रकृतिकैरित्यर्थः सम्पन्नः । न च सम्बोधने श्रितादीनां सुबन्तत्वासम्भवेन तेषां स्वप्रकृतिके लक्षणा नाऽऽवश्यिकेति वाच्यम् । (येन विधिरि)ति सूत्रस्थभाष्यप्रामाण्येन सम्बुद्धिस्त्रीलिङ्गप्रथमान्तभिन्नेऽपि समासस्येष्टत्वेन श्रितादीनां लक्षणाया आवश्यकत्वात् । श्रितादीनां समर्थविशेषणत्वात्प्राप्तस्य तदन्तविधेः (समासप्रत्ययविधौ प्रतिषेधः) इत्य. नेन निषेधात्कष्टं परमश्रित इत्यादौ न समासापत्तिः । तदन्तविधौ तु श्रिताद्यन्तसमर्थप्रकृतिकरित्यर्थे तत्रोक्तापत्तिर्दुरैवेति दिक् ॥ स्वयं तेन-ननु अत्र सूत्रे आत्मनेत्यर्थकस्य स्वयमित्यव्यस्य कर्तृत्वनिष्ठविशेष्यतानिरूपितबोधजनकत्वेन कर्मत्वविशेष्यकबोधजनकत्वाऽभावान्न द्वितीयायाः सम्बन्धः किन्तु तृतीयाया एवेत्याह-द्वितीया तु नेह सम्बध्यते अयोग्यत्वादिति-असम्भवादिति तदर्थः । तस्य प्रत्ययत्वात्प्रत्ययग्रहणपरिभाषया तदन्तविधौ स्वयमित्यव्ययं कान्तप्रकृतिकसमर्थसुबन्तेन सह समस्यते इति सूत्रस्यार्थः । स्वायंकृतिरित्युदाहरणम् । समासे स्वयंकृतशब्दादिजि आयचो वृद्धौ रूपं सिद्धयतीति समासस्योक्तप्रयोगोपपत्तिरैकेश्वर्यमपि फलम्बोध्यम् । तदभावे तु कृत इत्यस्यैव षष्टयन्तत्वेन तत एवोक्तप्रत्यये ऋकारस्य वृद्धौ रपरत्वे स्वयंकार्तिरित्यापत्तिरिति दिक् ॥ खट्वा क्षेपे-द्वितीया श्रितेत्यतो द्वितीयायाः स्वयं क्तेनेत्यतः क्तेनेत्यस्य चानुवृत्तिः, तयोश्च प्रत्ययत्वात्प्रत्ययग्रह परिभाषया तदन्तविधिः । क्षेपो निन्दा । खट्वा Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280