Book Title: Fakkika Ratna Manjusha
Author(s): Kanaklal Thakur
Publisher: Harikrishna Nibandh Bhawan Benaras
View full book text
________________
४८
सम्॥
फक्किकारत्नमञ्जूषा। न्तविधौ चतुर्थ्यन्तमिति सामर्थ्यात्तेन तदर्थो लक्ष्यते तस्मात्तादयं चतुर्थीत्यभिप्रेत्याहचतुर्थ्यन्तार्थाय यत्तद्वाचिनेत्यादि-चतुर्थ्यन्तवाच्ययूपाथं यदावादि तवाचकशब्देन चतुथ्यर्थन्तस्य वा समास इत्यर्थः । यूपाय दावित्यादीन्युदाहरणानि ।
ननु सूत्रे तदर्थपदेन प्रकृतिविकृतिभावातिरिक्तग्रहणे तेनैव बलिरक्षितशब्दाभ्यामपि समाससिद्धौ याभ्यां समासाथं कृतमुक्तशब्दद्वयग्रहणं व्यथं सज्ज्ञापयति तदर्थपदेन प्रकृतिविकृतिभावस्यैव ग्रहणमित्याशयेनाह-तदर्थेन प्रकृतिविकृतिभाव एव गृह्यते । बलिरक्षितग्रहणाज्ज्ञापकादिति-न च हितमुखशब्दयोरपि ज्ञापकत्वसम्भवेन शब्दचतुष्टयस्यैव ज्ञापकत्वप्रतिपादनस्य युक्तत्वाद्वयोरेव तत्त्वप्रदर्शनमयुक्तमिवि वाच्यम् । हि. तसुखशब्दयोगे । (चतुर्थी चाशिष्यायुष्यमदभद्रकुशलसुखार्थहितैरि)त्यनेनाऽतादयेऽपि चतुर्थासम्भवात् उक्तशब्दद्वयेनाऽन्योपकाराऽजननेन तद्योगे तादर्थ्यचतुर्था असम्भवाञ्चोक्तशब्दद्वयस्य ज्ञापकत्वाऽसम्भवात् । न च समासत आशिषोऽप्रतीत्या (चतुर्थी चाशिषी)ति विहितचतुर्थ्यन्तस्य समासाऽस्वीकारादलिरक्षितग्रहणवद्धितसुखशद्वयोरपि ज्ञापकत्वं सम्भवतीति वाच्यम् । ब्राह्मणहितं, गोहितं, गोमुखमित्यादिलक्ष्यदर्शनादतादर्थ्यचतुर्थ्य. न्तस्यापि समासाङ्गोकारात्तदर्थन्तयोरावश्यकत्वात्सामर्थ्यविरहेण ज्ञापकत्वाऽसम्भवा. दित्यलम् ॥
ननु बलिरक्षितग्रहणज्ञापकज्ञापितस्य प्रकृतिविकृतिभावस्य तदर्थपदेन ग्रहणमितिनियमस्य रन्धनाय स्थालीत्यत्र समासवारणमेव फलं तत्र षष्टीसमासस्य दुरित्वानियमो व्यर्थ एव । न च सति षष्टी समासे समासस्वरः, तादर्थ्यचतुर्थ्या तु नियमेन समासवारणात्पूर्वपदप्रकृतिस्वर इति स्वरे विशेष इति वाच्यम् (चतुर्थी तदर्थे) इत्येतद्विहितपूर्वपदप्रकृतिस्वरस्यापि प्रकृतिविकृतिभाव एवेष्टत्वादुक्तस्वराऽप्रात्त्या स्वरेऽविशेषादुक्तसमा. सस्याऽनिवार्यत्वेन नियमवैयर्थ्यस्य तादवस्थ्यादिति चेन्न । रन्धनाय स्थालीत्यत्र शब्दशक्तिस्वभावात्तदर्थत्वेनैव भानेन सम्बन्धत्वेनाऽभानात् षष्ठयभावेन तत्समासाऽप्रात्या सत्यां तादर्यचतुर्थी प्राप्तं तत् समासनिवृत्यर्थमुक्तनियमस्याऽऽवश्यकत्वेव सार्थक्यात् । एतत्सर्व प्रकृतसूत्रस्थभाष्ये स्पष्टम् । तत्र हि (चतुर्थी तदर्थमात्रेण चेत्सर्वप्रसङ्गोऽविशेषात् । सर्वस्य चतुर्थ्यन्तस्य तदर्थमात्रेण सह प्रसङ्गो भवति । अनेनाऽपि प्राप्नोति, रन्धनाय स्थाली, अवहननायोलखलमि)ति । अत्राऽनेनाऽपि प्राप्नोतीत्युक्त्वा कथमप्येषु समासो न भवतीत्युक्तम् । उक्तञ्च कैयटेन नाऽनभिधानादन्धनस्थाल्यादयः षष्ठीसमासा भवन्तीति । नचोक्तयुक्त्या चतुर्थीषष्ठीसमासवारणेऽपि रन्धनार्था स्थाली रन्धनस्थालीति मध्यमपदलोपिसमासो बाधकाऽभावात्स्यादेवेति वाच्यम् । अनभिधानादुक्तसमासस्याऽप्यप्राप्तेरिति दिक्॥
अश्वघासादयस्तु षष्टीसमासा इति-तदर्थपदेन प्रकृतिविकृतिभावग्रहणासमासाप्राप्त्याऽत्रापि घासादीनामुपकारकत्वेन तादर्थ्यचतुर्थी सत्यां न समास: किन्तु वाक्यमेव । सम्बन्धत्वेन भाने तु षष्ठीसमासो भवत्येवेति भावः ॥
अर्थेन नित्यसमासो विशेष्यलिङ्गता चेति वक्तव्यमिति-अनेन वात्तिकेन कार्यद्वयं विधीयते । एवमर्थशब्देन चतुर्थ्यन्तस्य नित्यसमासत्वं द्वितीयं विशेष्यगतलिङ्गस्वञ्च एतदसत्वे विभाषाऽधिकारेण समासस्य पाक्षिकत्वात्समासाऽभावपक्षे वाक्यस्याऽपी
Aho ! Shrutgyanam

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280