Book Title: Fakkika Ratna Manjusha
Author(s): Kanaklal Thakur
Publisher: Harikrishna Nibandh Bhawan Benaras

View full book text
Previous | Next

Page 186
________________ फक्किकारत्नमञ्जूषा। लुप्शब्देन लुप्संज्ञया लुप्तप्रत्ययार्थो लक्ष्यते तदाह-नक्षत्रे प्रकृत्यर्थे यो लुप्संशये. त्यादि-मूलेनाऽऽवाहयेद्देवीमिति । नक्षत्रवाचकान्मूलशब्दात् 'नक्षत्रेण युक्तः कालः' इत्यनेनाऽण तस्य 'लुबविशेषे' इति लुप् । मूलनक्षत्रयुक्तचन्द्रकालाऽधिकरणकदेवीकर्मक. वाहनमिति बोधः । 'सप्तम्यधिकरणे चेत्यतो मण्डूकप्लुत्याऽनुवृत्तस्याऽधिकरणस्याऽग्रहणे. ऽस्य सूत्रस्य सर्वविभक्त्यपवादत्वेनेतराऽनपेक्षत्वरूपाऽन्तरङ्गत्वात्प्रातिपदिकार्थ एव पष्टीसप्तम्योर्विधाने अद्य पुष्य इति प्रयोगो न सिद्धयेदिति तदर्थन्तदावश्यकमिति । नक्षत्र इत्यस्याऽसत्त्वे पञ्चालेषु तिष्ठन्ति अत्र पञ्चालशब्दादुभयविभक्त्यापत्तिरतस्तत् । तत्र 'जनपदे लुबिति लुप् ॥ सप्तमीपञ्चम्यौ कारकमध्ये- 'कालाऽध्वनोरत्यन्तसंयोगे' इत्यस्मात्कालाऽध्वनोरित्यनयोरनुवृत्तिः । तौ च पञ्चम्या विपरिणम्येते। कारकशब्दोऽत्र शक्तिपरः । मध्यशब्दस्याऽवधिद्वयसापेक्षत्वादूद्विवचनान्तेन कारकशब्देन समासः, कारकयोर्मध्ये इति विग्रहः । शक्तिद्वयस्य शक्तित्वेनैव बोधो न तु द्वित्वेन । ननु कर्तृरूपकारकस्यैकत्वाद्भेद. निबन्धनमध्यव्यपदेशो न स्यादिति चेन्न । कर्तृत्वादिशक्तरेव कारकरूपत्वात्तस्याश्च कालभेदेन भेदादुक्तव्यपदेशोपपत्तेरित्याह-शक्तिद्वयमध्ये यो कालाऽध्वानावित्यादिअघध्यवधिमतोः साजात्यनियमात्कालाऽध्वनोः कारकमध्येऽसम्भवाच्छक्तिशब्देन शक्त्या. श्रयकालग्रहणं बोध्यम् । षष्ट्या बाधकोऽयं योगः स्वाऽनन्तरकालवृत्तित्वादिकं विभक्त्यर्थः । ___ यस्य चेश्वरवचनमित्यत्र प्रमाणाऽभावाल्लक्ष्याऽनुरोधेन व्याख्यानाञ्च निरूपितत्वस्य वृत्तित्वस्य वा पष्टयर्थत्वेन यन्निरूपितेश्वरत्वं गम्यते यनिष्ठेश्वरत्वं च गम्यते ततःसप्तमीत्यर्थ इत्याह-स्वस्वामिभ्यां पर्यायेण सप्तमीति-क्रमेणोदाहरणम् । अधि भुवि रामः, अधिरामे भूः । इत्यधिकरण कारकप्रकरणम् ॥ इति कारकप्रकरणम् । अथ समासप्रकरणम् । ननु कारकान्तेन सुसंज्ञोद्देश्यसम्बन्धिन्याः संज्ञायास्तत्प्रयुक्तकार्यस्य च निरूपणाऽनन्तरं प्रसङ्गतस्समासनिरूपणमारभते-समर्थः पदविधिरिति-विधीयते इति विधिः कर्मसाधनः । तस्य षष्ठयन्तेन पदशब्देन समासः । पदस्य विधिः पदविधिरिति । समर्थपदस्य समर्थाश्रितोऽर्थः। तथा च, पदसम्बन्धीविधिः समर्थाश्रितो भवतीत्यर्थः । सामथ्यं द्विविधम्-व्यपेक्षारूपम् , एकार्थीभावरूपञ्च अत्रैकार्थीभावरूपमेव सामर्थ्य न तु व्यपेक्षारूपं व्याख्यानात् समासादिवृत्तिषु तस्याऽसम्भवाच्च । एकार्थीभावश्च (संसृष्टाऽर्थ समर्थमिति भाष्यात् विशेष्यविशेषणभावाऽवगाोकोपस्थितिजनकत्वरूपः । शाब्दिकनये-समुदायशक्त्यङ्गीकारादस्ति कृत्तद्धितैकशेषसमाससनाद्यन्तधातुरूपपञ्चवृत्तिष्वेकार्थीभावरूपसामर्थ्यम् । अत एव राजपुरुष इत्यादिसमासे न पदार्थैकदेशे राज्ञि ऋद्धादिविशेषणाऽन्वयः (पदार्थः पदार्थेनान्वेति न तु पदार्थैकदेशेने )ति व्युत्पत्तः । एतत्फलितार्थकथनमेव ( सविशेषणानां वृत्तिर्न वृत्तस्य विशेषणयोगो ने )ति बोध्यम् । नयोक्तरीत्या पदार्थैकदेशे विशेषणाऽन्वयस्याऽभावप्रतिपादनाद्देवदत्तस्य गुरुकुलम् , ऋद्ध. Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280