Book Title: Fakkika Ratna Manjusha
Author(s): Kanaklal Thakur
Publisher: Harikrishna Nibandh Bhawan Benaras

View full book text
Previous | Next

Page 187
________________ समासप्रकरणम् । ४१ स्य राजमातङ्गा इत्यादेः प्रयोगस्याऽप्रामाण्यापत्तिरिति वाच्यम् । गमकत्वात्तत्र विशेपणाsन्वयस्य युक्ततया तस्य प्रामाण्योपपत्तेः । न च महादेव इत्यत्राssत्वं न स्यात्समासे समुदाये शक्त्या तस्यैवाऽर्थवत्वेन तदेकदेशस्याऽनर्थकत्वेन सूत्राप्राप्तेरिति वाच्यम् । सूत्रा ऽऽरम्भसामर्थ्याद्भूत पूर्वगतेराश्रयणाच्च सूत्रप्रवृत्तेरित्यलम् ॥ वैयाकरणैः - समासे समुदाये एव शक्तिः स्वीक्रियते नत्ववयवे तथाहि, रथन्तरं, सप्तपर्णः, शुश्रूषेत्यादाववयवार्थ प्रतीत्यभावात्समासादिपञ्चस विशिष्ट एव शक्तिः । अत एव व्यपेक्षापक्षस्योद्भावनं कृत्वा [ अथाऽस्मिन् व्यपेक्षारूपसामध्यें योऽसावेकार्थीभावकृतो विशेषः स वक्तव्य ] इत्युक्तम्भाष्ये । अत एव च, धवखदिरौ । निष्कौशाम्बिः । गोरथः । घृतघटः । गुडधानाः । केशचूडः । सुवर्णालङ्गारः । द्विदशाः । सप्तपर्णः । इत्यादौ साहित्य-क्रान्त-युक्त - पूर्ण - मिश्र - संघात विकार - सुच्प्रत्ययलोप- वीप्साद्यर्था न वचनरूपेण वाच्या भवन्ति अन्यथा तत्तदर्थं वचनं कर्त्तव्यमेव । यत्तु तार्किकमीमांसकादयः - राजपुरुष इत्यादौ राजपदादेः सम्बन्धिनी लक्षणयैव राजसम्बन्धवदभिन्नः पुरुष इति बोधः स्यादेव समासे न स्वीकार्या शक्तिः । अत एव राज्ञः पदार्थैकदेशत्वेन तत्र ऋद्धादिविशेषणाऽन्वयो न [ पदार्थः पदार्थेनान्वेती ]त्युक्तेः ( सविशेषणानां वृत्तिर्ने) त्युक्तेश्च । धवखदिरावित्यादौ न साहित्याद्यर्थप्रत्यायकवचनकर्त्तव्यतापत्तिः लक्षणयैवोक्तार्थत्वात् ( उक्तार्थानामि ) ति न्यायेन तदप्रयोगात् । लक्षणया राजसम्बन्ध्यभिन्न इति बोधनेच्छायां समासस्य, राजसम्बन्धवानिति बोधनेच्छायां वि. ग्रहस्य च प्रयोगनियमसम्भवे 'विभाषे 'ति सुत्रस्याऽपि नाऽऽवश्यकत्वम् । न चोक्तस्थलेषूक्तप्रकारेण विशिष्टशक्त्यनभ्युपगमेऽप्यवयवशक्त्यैव निर्वाद्दिऽपि पङ्कजशब्दात्पङ्कजनिकर्तृरूपार्थलाभार्थं समुदायशक्तिरावश्यिकेति वाच्यम् । उक्तार्थस्य योगादेव लाभादित्याद्याहुः । तन्न, विशिष्टशत्यनङ्गीकारे विशिष्टस्याऽर्थवत्वाऽभावेन प्रातिपदिकत्वाऽनापत्तेः । अत एव अर्थवत्सूत्रभाष्ये अर्थवदिति किम् । अर्थवतां समुदायोऽनर्थकः, दश दाडिमानि पड. पूपाः, कुण्डमजाजिनमिति प्रत्युदाहृतम् । एवञ्च त्वन्मते राजपुरुषपदयोः प्रत्येकमर्थवत्त्वेsपि समुदायस्य तत्त्वाभावात्प्रातिपदिकत्वं न स्यात् । नचोत्तरसूत्रे समासग्रहणात्सुलभैव संज्ञेति वाच्यम् । समासग्रहणस्य नियमार्थत्वस्य भाष्यकृतैवोक्तत्वात् । अन्यथा सिद्धिं विना नियमत्वाऽसम्भवात् । समासग्रहणस्य नियमार्थत्वादेव राज्ञः पुरुषः, देवदत्तः पचतीत्यादिवाक्यस्य मूलकेनोपदंशमित्यादेश्व न प्रातिपदिकसंज्ञा । किञ्च विशि ष्टशक्त्यस्वीकारे शक्यसम्बन्धरूपलक्षणाया अप्यसम्भवाल्लाक्षणिकार्थवत्त्वस्याऽप्यभावेन सर्वथा प्रातिपदिकत्वाभावस्य निश्चितत्वेन स्वाद्यनुत्पत्तौ ( अपदं न प्रयुञ्जीते ) ति भाष्यात्समस्तप्रयोग विलयाऽऽपत्तिरित्यलम् ॥ ननु पूर्व भूत इति विग्रहे 'सुपा' इत्यनेन समासे समासत्वात्प्रातिपदिकसंज्ञायाम् 'सुपो धातुप्रातिपदिकयोरित्यनेन प्रातिपदिकाऽवयवस्य सुपोलुकि पूर्वभूत इत्यत्रोभयोः पूर्वभूतशब्दयोरुक्तसमाससंज्ञाविधायकशास्त्रवटकप्रथमान्यपदबोध्यत्वादुपसर्जनसंज्ञाप्राप्तौ द्वयोस्तस्यां सत्यां पर्यायेण पूर्वप्रयोगापच्या निर्देशोपपत्तौ निर्देशादित्यादिमूलोक्तस्याऽसङ्गत्यापत्तिरिति चेन्न । उपसर्जनेतिमहा संज्ञाकरणसामर्थ्याच्छास्त्रीयोपसर्जनत्वसमानाऽधिकर Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280