Book Title: Fakkika Ratna Manjusha
Author(s): Kanaklal Thakur
Publisher: Harikrishna Nibandh Bhawan Benaras

View full book text
Previous | Next

Page 183
________________ अधिकरणकारकप्रकरणम् । अथाधिकरणकारकप्रकरणम् । आधारोऽधिकरणम्- 'कारके' इत्यधिकारात्क्रियाजनकेऽस्य प्रवृत्तिः । आधारश्चोपस्थितत्वात्क्रियाया एव, तत्राऽऽधारपदेन न साक्षात्क्रियाऽऽधारस्य ग्रहणं किन्तु पर.. म्परया तदाधारस्य पराभ्यां कर्तृकर्मसंज्ञाभ्यां बाधात् । परम्परा च व्याख्यानात् कर्तृकर्म . द्वारैवेत्याह-कर्तृकर्मद्वारेति-उक्तञ्च हरिणा कर्तृकर्मव्यवहितामसाक्षाद्धारयत्क्रियाम् । उपकुर्वत्क्रियासिद्धौ शास्त्रेऽधिकरणं स्मृतम् ॥ इति ॥ न च कालस्य साक्षात्क्रियाधारत्वसम्भवे कथं परम्पराऽऽधारस्य ग्रहणमिति वा. व्यम् । परम्पराऽऽधारग्रहणस्यैवाऽनुभवसिद्धत्वात् । तस्य साक्षात्क्रियाऽऽधारत्वेऽप्याधा. स्पदे स्वरितत्वप्रतिज्ञया परम्पराऽऽधारस्य ग्रहणम् । किञ्च कालस्य साक्षात्तदाधारत्वे काल: पचति भूतानीतिवत्कर्तृत्वमेव स्यात् । परम्पराऽऽधारग्रहणे सिद्धे (यस्य यदद्वारा कारकत्वं तस्य तद्वारैव क्रियान्वयः) इति व्युत्पत्त्याऽस्याऽऽधारस्य कर्तृकर्मद्वारैव क्रियाऽन्वयः । (१)अत एव, अक्षशौण्ड इत्यादौ समासः । यथा कटे शेते चैत्र इतिवाक्यात्कटाऽधिकरणकचैत्रकर्तृकं शयनमिति बोधस्तथाऽक्षाऽधिकरणकशौण्डकर्तृका भवनक्रियेतिबोधात्साक्षादेव सप्तम्यन्तस्य शौण्डादिभिः सामथ्येन समाससंज्ञासिद्धिरिति भावः । यत्त कैयटेनोक्तम्-अक्षेषु शौण्ड इत्यत्राऽऽसक्तपदाऽध्याहारेणाऽऽसक्तिक्रियावा. रा सामर्थ्यात्समास इति तन्न हृदयग्राहि, भाष्यकृता तस्याऽर्थस्याऽनुक्तत्वात् यत्र च कियावाचकपदन्न श्रूयते तत्रापि तदन्वययोग्यक्रियावाचकपदाऽऽध्याहारेण क्रियाऽऽधारत्व. स्योपपादनीयत्वान्मूले वृक्षः कपिसंयोगीत्यादावस्तिक्रियामध्याहृत्य तस्याः स्वकर्तृकपिसंयोगिवृक्षद्वारा मूलवृत्तितया मूलस्याऽऽधारत्वं बोध्यमिति दिक् ॥ __ औपश्लेषिकवैषयिकाऽभिव्यापकभेदादाधारस्त्रिधा। उपसमीपे श्लेष उपश्लेषस्तत्कृत औपश्लेषिकः । यन्मासेऽतिक्रान्ते दीयते तस्य मास औपश्लेषिकमधिकरणमिति 'तत्र च दीयते' इति सूत्रभाष्योक्तेः। अत एव, 'इको यणची'त्यनाऽचीत्यौपश्लेषिकाऽऽधारे सप्त. मी । कटे आस्ते, स्थण्डिले शेते इत्याद्युदाहरणम् । कटाधिकरणिकैककर्तृकाऽऽसनक्रिया। स्थण्डिलाऽधिकरणिकैककर्तृका शयनक्रियेति बोधः । विषयकृतो वैषयिकः, अप्राप्तिपूर्वक प्राप्तिरूपसंयोगसमवायाऽतिरिक्तसम्बन्धेन यदधिकरणं तद्वैषयिकमधिकरणमिति फलितम् । मोक्षे इच्छाऽस्ति इत्याद्युदाहरणम् । स्थाल्यधिकरणककर्तृवृत्तिविक्लित्यनुकूलव्यापारः । मोक्षाविषयकेच्छाकर्तृकसत्तेति बोधः । यत्र सर्वाऽवयवावच्छेदेनाऽभिव्याप्तिस्तदभिव्यापअधिकरणम् । तिलेषु तैलं, दधिन सर्पिः, सर्वस्मिन्नात्मास्तीत्यायुदाहरणम् । तिलव्यापकाधिकरणकतैलकतृ कसत्ता । दधिव्यापकाऽधिकरणकसपिःकर्तृकसत्ता । सर्वव्यापकाऽधिकरणकाऽऽत्मक कसत्तेत्येवं रीत्या बोधः । एतान्येव मुख्याधिकरणोदाहरणानि । पू. वोक्तानि तु गौणाऽधिकरणस्येति बोध्यम् । अधिकरणत्वशक्तिमानधिकरणविभक्त्यर्थः ॥ क्तस्येन्विषयस्य कर्मण्युसंख्यानम्-इन्प्रकृतेः तान्तस्य कर्मणि सप्तमीति ( १ ) उक्तनियमस्वीकारादेवत्यर्थः । ४ फ० म० Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280