Book Title: Arthashastra aparnama Rajsiddhanta
Author(s): Kautilya Acharya, 
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

Previous | Next

Page 24
________________ कौटलीयराजसिद्धान्त टीका अष्टशतग्रामसमाहारस्य मध्ये चतुर्दिशं द्वे द्वे ग्रामशते निवेश्य तन्मध्ये स्थानीय समुदायव्यवहारस्थानाय हितमिति । तथैव चतुःशतग्राम्या मध्ये द्रोणमुखं । यथा द्रोणमुखं चतुराढकोपलक्ष्यमेवं ग्रामशतचतुष्टयोपलक्षितं । तद्वद् द्विशतग्राम्याः [का] ' टिकमिति रूढिसंज्ञा । दशग्रामीसंग्रहेणेति । दश दश ग्रामाः " (7) संगृह्यते येन मुख्यग्रामेणासौ संग्रह एवं स्थानीयस्य द्वे द्रोणमुखे चत्वारि कार्वदिकानि । अशीतिः संग्रहाः । अनेन विभागेन जनपदनिवेशः कार्यः । पालनार्थमाह । * (5) अंतेष्वंतपालदुर्गाणि जनपदद्वाराण्यंतपालाधिष्ठितानि स्थापयेत् । तेषामंतराणि वागुरिकशब " रपुलिंदचंडालारण्यचरा रक्षेयुरिति ।। [२.१.६] अंतेषु जनपदस्य चतुर्दिशं । अंतपालदुर्गाणि जनपदरक्षाक्षमाणि । जनपद- 10 द्वाराण्यन्यतः प्रवेशनिर्गमयोर्निषेधात् । अंतपालैः प्रबलबलयुक्तैरधिष्ठितानि स्थापयेत् । तेषां चतुर्णां द्वाराणामंतराणि वागुरा मृगबंधार्थं जालं तेन व्यवहरंतीति वागुरिका व्याधाः । शबराः किंचिज्जनपदभाषाभिज्ञा वनेचराः । [2B] पुलिंदास्तु भाषानभिज्ञाः। चंडालाः प्रतीताः । अरण्यचराः सर्व्वग्रहादयः । ते रक्षेयुः प्रवेशनिर्गमप्रतिषेधं कुर्युरित्यर्थः । (10) धर्म्मोद्देशेन भूमिदानमाह । * ऋत्विगाचार्यपुरोहितश्रो "त्रियेभ्यो ब्रह्मदेयान्यदंडकराण्यभिरूपदायादकानि प्रयच्छेदिति ॥ [२.१.७] ऋत्विजः शांतिगृहाधिकृताः षोडश । आचार्या विद्यानामुपाध्यायाः । पुरोहितः प्रतीतः । श्रोत्रियारछंदोध्यायि " नः स्नातकास्तेभ्यो । ब्रह्मदेयानि । तदभिधानक्षेत्राण्यदंड - 20 कराणि । अभिरूपदायादकानि । यस्मै दत्तं तदनुरूप एव दायादो भवितुमर्हतीत्यर्थः । प्रकर्षेण यच्छेदपुनर्वि" " लोपाय । अर्थोद्देशानाह । * अध्यक्षसंख्यायकादिभ्यो गोपस्थानिकानीकैस्थचिकित्सकाश्वदमकजंघाकारिकेभ्यैश्च विक्रयाधानवजनीति ॥ [२.१.८] SJ ण्या, Sv. 1. ण्यं । २ SJG दायकानि । ३ Sv. 1. स्थानिनानीक | SJG अंधारिके, SGv. 1. जंघालके । ५ SJC वर्ज । 15 अध्यक्षाः समाहर्तादयः । (*) संख्यायका गणितज्ञा आदिग्रहणाद्रूपदर्शकनीवीग्राहकोत्तराध्यक्षाः । गोपो विंशतिकुलीं विंशतिग्रामीं वा गोपायतीति । स्थानिको गोपानामेवाधिष्ठातृस्थाने " नियुक्तः । अनीकस्थाः प्राधान्याद्धस्तिन एवानीकं तद्विनयाधानाय तत्र तिष्ठतीत्यनीकस्था हस्तिशिक्षाविदः । चिकित्सका नरहस्त्यश्वादिभिषजः । अश्वदमकाः शालिहोत्रवि ' दोश्वानां विनयकर्तारः । जंघाकारिका दीर्घाध्वगा लेखहारका - 30 Jain Education International For Private & Personal Use Only 25 www.jainelibrary.org

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118