Book Title: Arthashastra aparnama Rajsiddhanta Author(s): Kautilya Acharya, Publisher: Singhi Jain Shastra Shiksha Pith MumbaiPage 73
________________ सटिप्पनकं कौटलीयमर्थशास्त्रम् तेषां* मुण्डजटिलव्यञ्जनों यद्भक्तिः कृत्यपक्षीयस्तं तैनोपजापयेत् । यथा मदान्धो हस्ती मत्तेनाधिष्ठितो यद्यदासादयति तत्सर्व प्रमृद्गाति एवमयमशास्त्रेचक्षुरन्धो राजा 'पौरजानपदवधायाभ्युत्थितः । शक्यमस्य प्रतिहस्तिप्रोत्साहनेनापकर्तुममर्षः क्रियतामिति क्रुद्धवर्गमुपजपे(जापये ?)त् । यथा लीनः सो यस्माद्भयं पश्यति तत्र विषमुत्सृजति । एवमयं राजा जातदोषाशङ्कस्त्वयि पुरा क्रोधविषमुत्सृजति अन्यत्र गम्यतामिति भी-[ २२ द्वि.] तवर्गमुपजापयेत् ॥ यथा श्वगणिनां धेनुः श्वभ्यो दुह्यते न ब्राह्मणेभ्यः। एवमयं राजा सत्त्वप्रज्ञावाक्यशक्तिहीनेभ्यो दुह्यते नात्मगुणसम्पन्नेभ्यः। असौ' राजा 10 पुरुषविशेषज्ञस्तत्र गयंतामिति लुब्धवर्गमुपजापयेत् ।। ___ यथा चण्डालोदपानश्चण्डालानामेवोपभोग्यो नान्येषामेवमयं राजा नीचो नीचानामेवोपभोग्यो न त्वद्विधानामार्याणामसौ राजा पुरुषविशेषज्ञः तत्र गम्यतामिति मानिवर्गमुपजापयेत् ॥ तथेति प्रतिपन्नांस्तान संहितान् पणकर्मणा । योजयेत यथाशक्ति सार्वसर्पान् कर्मसु ॥ लभेत सामदानाभ्यां कृत्यांश्च परभूमिषु । अकृत्यान् भेददण्डाभ्यां परदोषांश्च दर्शयन् । ___ इति विनयाधिकारिके चतुर्दशोऽध्यायः॥1 * .... २ शास्त्रचक्षुमंत्री । स न विद्यते यस्य यन्त्र स्थानीय स्वयमप्यंधः । ३ जनपदवधाय उद्यतः। ४ भवत्स्वामी। ५ विजिगीषुमुद्दिश्य । ६ विस्तृतायाः टिप्पन्या एतान्येव वाक्यानि पठ्यन्ते-"असौ भवत्स्वामी राजा नीचो नीचानामेवोपभोग्यो न भवविधानां मानीनामिति भावस्तथा चोक्तं कविषु कवयो......नीचा नीचेष्वभिरमंत इति ।" ७ ......पुरुषविशेषज्ञो मानीनां मानोन्नतिकर्ता । उक्तं च...... । ८ तथेति यथा मुंडादिभिरुपजप्योक्ता यथा अपकारार्थ भयापगमार्थ महालाभार्थं मानोसत्यर्थं च विजिगीषुराश्रयणीय इति । तथेति प्रतिपन्नांस्तान् क्रुद्धादीन् संहितान् कृतसन्धानान्यकर्मणो............क्रिय या योजयेन्नियोजयेद् । यथाशक्ति शत्यनतिक्रमेण । यत्कर्म यः कतुं शक्नोति । सावसान कृतगूढपुरुषप्रणिधानान् स्वकर्मसूद्दिष्टेषु कर्मसु । १ भेददंडाभ्यां शत्रुणा सह भेदं कारयित्वा उपांशुवधं शत्रुणा कृतं रूपयित्वा हतबांधवान कृत्यानपि पश्चाल्लभेत परदोषांश्च दर्शयन् । क्रूरो लुब्धः कृतघ्न इत्यादिकान् । 1G राजान्धेन मन्त्रिणाधिष्ठितः पौर। 2 svl नापकर्तुमेषः। 3 SIG उपजापयेत् । 4 J भीतः। 5 SIG दुग्धे। 6 SIG दुग्धे । 7 8G सेव्यतामिति; Jvl स सेव्य। 8 SIG सापस। 9 SJG स्वकर्मसु । 10 SJG दर्शयेत् । 115 परविषये कृत्याकृत्यपक्षोपग्रहः चतु; I प्रथमेऽधिकरणे पर° कृत्य चतु; G प्रथमाधिकरणे चतु पर कृत्या। Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118