Book Title: Arthashastra aparnama Rajsiddhanta
Author(s): Kautilya Acharya, 
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

Previous | Next

Page 75
________________ 30 सटिप्पनकं कौटलीयमर्थशास्त्रम् नास्य [ २३ द्वि.] गुह्यं परे विद्युः कर्म 'किञ्चिच्चिकीर्षितम्। . आरब्धारस्तु जानीयुरारब्धं कृतमेव वा ॥ नैकस्य मन्त्रसिद्धिरस्तीति विशालाक्षः । प्रत्यक्षपरोक्षानुमेया हि राजवृत्तिः । अनुपलब्धस्य ज्ञानमुपलब्धस्य निश्चितंबौधानमर्थद्वैधस्य संशय5 च्छेद॑नमेकदेशदृष्टस्य शेषोपलब्धिरिति मन्त्रिसाध्यमेतत् । तस्माद् बुद्धिवृद्धैः सार्द्धमध्यासीत मन्त्रम् । न कश्चिदवमन्येत सर्वस्य शृणुयान्मतम् । बालस्याप्यर्थवद्वाक्यमुपयुञ्जीत पण्डितः ॥ एतन्मन्त्रज्ञानं नैतन्मन्त्ररक्षणमिति पारासराः । यदस्य कार्यमभिप्रेतं 10 तत्प्रतिरूपकं मन्त्रिणः पृच्छेत् । १......रो जानीयुस्तत्राप्यारब्धं कृतमेव वा । आरब्धं विवेकिनः कृतमितरे जानंति । यथा राजा जनपदांते स्वनिहितं ध्रुवं निधि खानयन् ब्रूते-खन्यतामत्र कूप इति । तत्र विवेकिनो नेदं कूपस्थानमवश्यमन्त्र............कनककलशदर्शनात् । २ प्रत्यक्षागमानुमानप्रमाणत्रयेण राज्ञो व्यवहार एतदेव दर्शयसाह । ३ अप्रतीतस्याप्तवचनादेव ज्ञानम् । ४ उपलब्धस्यापि प्रत्यक्षेण । तत्वाभासभूयस्त्वे प्रत्यक्षाभासविप्रलब्धस्वानिश्चये बलं न भवति । तदाधानमपि मंत्रिसाध्यम् । ते हि निरपवादैः स्वमतिविभवै। पूर्वपक्षमु. भाव्य सिद्धान्तप्रदर्शनाद्राज्ञोपलब्धस्य निश्चितबलाघानं कुर्वन्ति । ५ कार्यद्वैधे मंत्रिण एव इत्युक्तिभिः संशयच्छेदः । ६ एकोऽवयवो राज्ञा दृष्टो यस्य कार्यस्याशेषावयवानां तु मंत्रिभिरुपलब्धिः क्रियते । तद्यथा संधिविग्रहयोस्तुल्यायां बुद्धौ संधिः श्रेयान् । विग्रहे हि क्षयम्ययादयो भवंति । इति राज्ञोपलब्धम् । तत्र मंत्रिणो विशेषं दर्शयति । संधिरपि भेदपूर्वः श्रेयान् न विग्रहपूर्व इति शेषोपलब्धिरेतदखिलं मंत्रिसाध्यं............ ॥ ७ एवं हि पाण्डित्यं भवतीति भावः । उक्तं च अप्युन्मत्तात्प्रलपतो गच्छतःस्वपतोपि वा । सर्वस्मारसारमादेयं धातुभ्य इव कांचनमिति ॥ ८ बहुश्रोतृगतत्वात् । ९ तत्समानमध्यारोपितं कृत्वा मंत्रिणः पृच्छेत् । 1 SIG तस्मान्नास्य परे विद्युः । 2 SIG अरब्धास्तु । 3 SI निश्चय; a निश्चयो निश्चितस्यः। 4 SIG °मासीत। 5 SI °वाख्यं। 6 पराशरः; JG पाराशराः। 7 SIG मुद्रितेषु पुस्तकेषु 'पृच्छेत्' इत्यनन्तरं “कार्यमिदमेवमासीदेवं वा यदि भवेत्तत्कथं कर्तव्यमिति । ते यथा श्रूयुः तस्कुर्यात् । एवं मन्त्रोपलब्धिः संवृतिश्च भवतीति ।" इति पठ्यते।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118