Book Title: Arthashastra aparnama Rajsiddhanta
Author(s): Kautilya Acharya,
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
________________
सटिप्पनकं कौटलीयमर्थशास्त्रम्
विक्षेपव्याधितांतरारंभशेषं च व्ययप्रत्यायः ।
विक्रये पण्यानामर्घवृद्धिरुपजा मानोन्मानविशेषो व्याजी क्रयसङ्घर्षे वाऽर्घवृद्धिरित्यायः । नित्यो नित्यौत्पादिको लाभो लाभौत्पादिक इति
व्ययः ।
•
दिवसानुवृत्तो नित्यः । पक्षमाससंवत्सरलाभो लाभः । तयोरुत्पन्नो नित्यौत्पादिको लाभौत्पादिक इति व्ययः ।
संजातादायव्ययविशुद्धा नीवी । प्राप्ता चानुवृत्ता चं । एवं कुर्यात्समुदयं वृद्धिं चायस्य दर्शयेत् ।
ह्रासं व्ययस्य च प्राज्ञः साधयेच्च विपर्ययमिति ॥
॥ इति अध्यक्षप्रचारे द्वितीयेऽधिकरणे" षष्ठोऽध्यायः । समाहर्तृसमुदयप्रस्थापनम् ॥ ॥
*
६७
[ अक्षपटले गाणनिक्याधिकारः । ]
अक्षपटलमध्यक्षः प्राग्मुखमुदग्मुखं वा विभक्तोपस्थानं निबन्ध[५२ द्वि.] पुस्तकस्थानं कारयेत् ।
तत्राधिकरणानां सङ्ख्यामँचारसञ्जाताग्रम् । कर्म्मान्तानां द्रव्यप्रयोगवृंद्धिक्षयव्ययप्रयामव्याजीयोगस्थानवेतनविष्टिप्रमाणम् । रत्नसारफल्गुकुप्याना - 15 मर्घप्रतिवर्णकमानप्रतिमानोन्मानावमनभाण्डम् । देशग्रामजातिकुलसंघानां " धर्मव्यवहारचरित्र[सं]स्थानम् । राजोपजीविनां प्रग्रहप्रदेश भाग परिहार भक्तवेतनलाभम् । राज्ञश्च पत्नीपुत्राणां साररत्नभूमिलाभ” निर्देशोत्पातिकप्रतीकारलाभम् । मित्रामित्राणां च सन्धिविग्रहप्रदानादीनं निबन्धपुस्तकस्थं का[ ५३ प्र. ]रयेत् ।
ततः सर्वाधिकरणानां करणीयं सिद्धं शेषमायव्ययौ नीवीमुपस्थानं प्रचारं चरित्रं संस्थानं च निबन्धेन प्रयच्छेत् । उत्तममध्यमावरेषु च कर्म्मसु तज्जातिकमध्यक्षं कुर्यात् ।
सामुदायिकेष्ववक्लृप्तिकं [ व्य] यमुपहत्य राजा नानुतप्येतेति" ।
Jain Education International
1 sJca ° शेषश्च । 2 SJ प्रत्ययः | 3 SJG वा वृद्धिरित्यायः । 4 sJG नित्यो । 5 sJG लाभो । 6 sJa नित्यो° । 7 sJG लाभो° । 8 s इति व्ययसंजात । 9 SJC चेति । 10 sJG 'इति' नास्ति । 11 s 'द्वितीयेऽधिकरणे' नास्ति । 12 sJ समाहर्तुसमुदयप्रस्थापनं षष्ठोऽध्यायः आदितः सप्तविंशः; ७ षष्ठो° समाहर्तु आदितः । 13 प्रत्यङ्मुखः; svl प्राङ्मुख' । 14 sJ सख्यां प्रचार° । 15 sJG प्रयोगे वृद्धि | 16 SJG 'वर्णकप्रतिमानमानोन्माना। 17s °मानावामानभाण्डं मानोन्मानभाण्डं | 18s संघातानां । 19sJG भोग । 20 sJG 'सार' नास्ति । 21 s लाभनिर्देशो°। 22 G निर्देशौत्पादिक° | 23 sJG 'विक्रम' | 24 SJ दानानि ; svl दानं । 25 sJo प्रचारचरित्रसंस्थानं | 26 sJ समुदायि । 27 sJG राजाऽनुतं । 28 sJG 'इति' नास्ति ।
For Private & Personal Use Only
20
www.jainelibrary.org
Page Navigation
1 ... 110 111 112 113 114 115 116 117 118