Book Title: Arthashastra aparnama Rajsiddhanta
Author(s): Kautilya Acharya, 
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

Previous | Next

Page 110
________________ सटिप्पनकं कौटलीयमर्थशास्त्रम् तदेव भूमिगृहयुक्तमायुधागारम् । पृथग्धर्मस्थीर्यमहामात्रीयम् । विभक्तस्त्रीपुरुषस्थानमपराधतः' सुगुप्तकक्षं बन्धनागारं कारयेत् । [ सर्वेषां शालाखातोदपानवच्च स्नानगृहाग्निविषत्राणमार्जारनकुलारक्षास्था दैवपूजनवृत्ताः (svl. युक्ताः ) कारयेत् । ] कोष्ठागारे वर्षमानमरत्निमुखं कुण्डं स्थापयेत् । तज्जातकरणाधिष्ठितः पुराणं नवं वा रत्नं सा[ ५० प्र. ]रं फल्गुकुप्यं वा प्रतिगृह्णीयात् । तत्र रत्नोपधावुत्तमो दण्डः कर्तुः कारयितुश्च सारोपधौ मध्यमः फल्गुकुप्योपधौ तच्च तावच्च दण्डः । रूपदर्शकविशुद्धं हिरण्यं प्रतिगृह्णीयात् । अशुद्धं छेदयेत् । आहर्तु[:] पूर्वः साहसदण्डः । शुद्धं पूर्णमभिनवं च धान्यं प्रतिगृह्णीयात् । विपर्यये मूल्यद्विगुणो दंडः । एतेन पण्यं कुप्यमायुधं च व्याख्यातम् । ६५ तस्मादाप्तपुरुषाधिष्ठितः सन्निधाता [ ५० द्वि.] निचयानैनुतिष्ठेत् । बाह्यमाभ्यन्तरं चायं विद्याद्वर्षशतादपि । यथा पृष्टो न सज्जेत व्यये शेषे च संचये ॥ ॥ इति अध्यक्ष प्रचारे द्वितीयेऽधिकरणे" पञ्चमोऽध्यायः " ॥ सर्वाधिकरणेष्वार्युक्तोपयुक्ततत्पुरुषाणां पणद्विपणचतुः पर्णपरमापहारेषु पूर्वमध्यमोत्तमवधा दण्डा[:] । कोशाधिष्ठितस्य कोशावच्छेदे घातः । तद्वैयावृत्यर्कराणामर्द्धदण्डाः । परिभाषणमविज्ञाते" चौराणामभिप्रधर्षणे ।" चित्रो घातः । 15 * [ समाहर्तृसमुदयप्रस्थापनम् । ] समाहती दुर्ग राष्ट्रं खनिं सेतुं वनं ब्रजं वणिक्पथं चाव (वे) क्षेत् । 1 sJa स्थीयं महा' | 2 SJG ° स्थानमपसारतः । 3 SJG कक्ष्यं । 4 sJG च । ( + एषा पंक्ति: मूलादर्श नोपलब्धा । ) 5 sJG तेन । 6 SJG 'करणेषु युक्तो' । 7s पणादिचतुष्पणाः; svl पद्विपणचतुष्पण पर; पणादि चतुष्पणपरमा; पणद्विपणचतुष्पणपणाः । 8 SJC °त्यकाराणाम' । 9 SJG दण्डः । 10 svlJ विज्ञाने । 11 sJG चोराणा° । 12 SJG निचयानानुतिष्ठेत् । 13 sJG व्ययशेषं च दर्शयेत् । 14s 'द्वितीयेऽधिकरणे' नास्ति । 15s सन्निधातृनिचयकर्मः पञ्चमोध्याय आदितः षट्त्रिंशः, पचमो° सन्नि आदितः । 16 sJG चावेक्षेत । सहि० कौट० अर्थ. 9 Jain Education International For Private & Personal Use Only 10 20 www.jainelibrary.org

Loading...

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118