Book Title: Arthashastra aparnama Rajsiddhanta
Author(s): Kautilya Acharya,
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
________________
सटिप्पनकं कौटलीयमर्थशास्त्रम्
[२ अधि० १० अध्या० २९ प्रक० कोशप्रवेश्यरत्नपरीक्षाधिकारगतमिदं वर्णनं ज्ञेयम् । ]
. ति । शुद्धा मणिमध्या वा यष्टिः । हेममणिचित्रा रत्नावली । हेममणिमुक्तान्तरोपवर्तकः । सुवर्णसूत्रान्तरं सोपानकम् । मणिमध्यं वा मणिसोपानकम् । तेन शिरोहस्तपादकटीकलापजालकविकल्पा व्याख्याताः ।
5
मणिः कौटो मीलेयकः पारसमुद्रश्च । सौगंधिकः पद्मानवद्यरागः पारिजातपुष्पको बालसूर्यकः 'पंचधा पद्मरागः । वैडूर्य उत्पलवर्णः शिरीषपुष्पक उदकवर्णी वंशरागः शुकपत्रवर्णः पुष्परागो गोमूत्रको गोमेदकः । शुद्धस्फटिको मूलाटीवर्णः । इंद्रनीलो" नीलावलीयकः कलायपुष्पकः । महानीलो जंब्वाभो जीमूतप्रभः । नंदकः स्रवन्मध्यैः शीतवृष्टिः सूर्यकांतश्चेति मणयः । " पश्रिश्चतुरस्रो वृत्तो वा ती[ ६३ प्र. ]वरागः संस्थानवानच्छः स्निग्धो गुरुरचिष्मांनंतर गतप्रभः प्रभानुलेपी चेति मणिगुणाः ।
६९
मन्दरागप्रभः सशर्करः पुष्पच्छिद्रः खंडो दुर्विद्धो लेखाकीर्ण इति दोषाः । विमलकः सस्यकों जनमूलकः पित्तकः सुलभको लोहिताक्षो" मृगाश्मको ज्योतीरसको मालेयकोर्डे हिच्छत्रकः कूर्पप्रतिकूपः सुगंधिकूपः । क्षीरयकैः 15 शुक्तिचूर्णकः शिलाप्रवालकः पुलकः शुक्लपुलकः इत्यन्तरजातयः । शेषाः
काचमणयः ।
सभाराष्ट्रकं तर्जमाराष्ट्रकं कास्तीरराष्ट्रकं श्रीकटनकं मौणिमन्तकं इंद्रवानकं च वज्रम् । खनिः स्रोतः प्रकीर्णकं च योनयः । माजराक्षकं " शिरीषपुष्पकं गोमूत्रकं गोमेदकं शुद्धस्फटिकं मूलीटीवर्णम् । [ ६४ द्वि.]
*
* *
Jain Education International
1 $JQ °लि । 2 $JG शुद्धा । सैव मणि । 3 sa 'वा' नास्ति । 4 svl ° कटि । 5 sx मौलेयकः ; sv l मालेयकः । 6 SIG ° मुद्रकश्च । 7 sJG पद्मरागः अनवद्यरागः; sv] पद्मानवयरागः । 8 s ‘पंचधा पद्मरागः' नास्ति । 9 sJG 'शुद्ध... वर्णः ' नास्ति । 10 sra नीलावलीय (svl यक) इन्द्रनीलः । 11 sJG जाम्बवाभो । 12 G मध्यः । शुद्धस्फटिकः मूलाटवर्णः शीतवृष्टिः । 13 sJG षडन । 14 s°नुलोपी । 15 sJ लोहितकोऽमृतांशुको; G लोहिताक्षो मृगाश्मको । 16 sJa मैलेयक ं । 17 sra आहि' । 18 sa क्षीरपकः; svl J क्षीरबकः । 19s पुळकः । 20s शुक्रपुळकः; JG शुक्रपुलकः । 21 sJa मध्यमराष्ट्रकम् । 22 कारमक° [ कान्तीर° ] svlJ काश्मीर'; a कास्तीर° । 23 sJG मणि° । 24 sJG च शिरीष । 25 sJG मूलाटीपुष्पक ( syl पुष्प ) वर्णम् ।
For Private & Personal Use Only
20
www.jainelibrary.org
Page Navigation
1 ... 112 113 114 115 116 117 118