Book Title: Arthashastra aparnama Rajsiddhanta
Author(s): Kautilya Acharya,
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
________________
६८
सटिप्पनकं कौटलीयमर्थशास्त्रम् • सहग्राहिणः प्रतिभुवः कर्मोपजीविनः पुत्रा भ्रातरों भार्या दुहितरो । भृत्याश्चास्य कर्मच्छेदं वहेयुः।
त्रिशती' चतुःपंचाशच्चाहोरात्राणां कर्मसंवत्सरः। तमा[षा]ढीपर्यवसानमूनं पूर्ण वा दद्यात् । करणाधिष्ठितमधिमासकं कुर्यात् । । अवसाधिष्ठितं च [५३ द्वि.] प्रचारं प्रचारचरित्रसंस्थानान्यनुपलभमानी हि प्रकृतः समुदयमज्ञानेन परिहापयति । उत्थानक्लेशासहत्वादालस्येन । शब्दादिष्विन्द्रियार्थेषु प्रसक्तः प्रमादेन । संक्रोशाधानर्थभीरर्भयेन । कार्यार्थिप्वनुग्रहबुद्धिः कामेन । हिंसाबुद्धिः कोपेन । विद्याद्रव्यवल्लभापाश्रयादर्पण । तुलामानतर्कगणितांतरोपधानाल्लोभेन ।
तेषामानुपूर्व्या यावानर्थोपघातस्तावानेकोत्तरो दण्ड इति मानवाः । सर्वत्राष्टगुण इति पारासराः। दशगुणं [इति] बार्हस्पत्याः। विंशतिगुण इत्यौशनसाः । यथापराधमिति कौटल्यः।
. गाणनिक्याल्पाढीमागच्छेयुः। आगतानां समुद्रपुस्तकभाण्डनीवी'कानामेकंत्रासम्भाषा[५४ प्र.वरोधं कारयेत् । आयव्ययनीवीनामग्राणि श्रुत्वा 15 नीवीमहारयेत् । यच्चानादायस्यान्तरपणे" नीव्यां" वर्द्धत व्ययस्य वा तत्परिहापयेत् । तदष्टगुणमध्यक्षं दापयेत् । विपर्यये तदेव प्रति स्यात् ।
यथाकालमनागतानामपुस्तकभांडनीवीकानां वा देयदशबन्धो दण्डः। कार्मिके चोपस्थिते कारणिकस्याप्रतिबनतः पूर्वसाहसदण्डः । विपर्यये कार्मिकस्य द्विगुणः । प्राचारसमं महामात्राः समग्राः श्रावयेयुरविषममन्त्राः पृथ. ग्भूतो मिथ्यावादी चैषामुत्तमं दण्डं दद्यात् । अकृताहोरूपहरं मासमाकांक्षेत्" । मासादूर्द्ध मासद्विशतोत्तरं दण्डं दद्यात् । ___अल्पशेषलेख्यनीवीकं पंचरात्रमाकांक्षेत। ततः परं कोशपू ५४ द्वि....
[इतोऽग्रे पुस्तिका त्रुटिता । केवलं ६४ तममेकं पत्रमुपलभ्यते ।
तत्र च निम्नावतारितः पाठः पठ्यते ।]
1 SIG त्रिशतं । 2 SIG अपसर्पा । 3 sJG 'प्रसक्तः' नास्ति । 4 SIG °गणिकान्त । 5 SJG पाराशराः। 6 SJG गुंणः। 7 SJG निकयान्या 18 sa पुस्तभाण्ड198 मेकत्र सम्भा। 10 SIG °मवहारयेत् । 11 °न्तरवणे। 12 SIG निव्या। 13 SIG तमेव। 14 sa पुस्तनीविकानां । 15 ss °मन्त्रः; G °मात्राः। 16 SIG °मुत्तमदण्डं। 17 SI काखेत। 18 SI नीविक; svl नीवीकं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 111 112 113 114 115 116 117 118