Book Title: Arthashastra aparnama Rajsiddhanta
Author(s): Kautilya Acharya, 
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

Previous | Next

Page 108
________________ सटिप्पनकं कौटलीयमर्थशास्त्रम् [ दुर्गनिवेशः।] त्रयः प्राची[४७ द्वि.]ना राजमार्गास्त्रय उदीचीना इति वास्तुविभागः । द्वादशद्वारो युक्तोदक_मच्छन्नपथः । चतुर्दण्डान्तरा रथ्या राजमागर्गद्रोणमुखस्थानीयराष्ट्रविवीतपथाः । संयानीयव्यूहश्मशानग्रामपथाश्चाष्टौं दण्डा इति । चतुर्दण्डः सेतुवनपथः । द्विदण्डो हस्तिक्षेत्रपथः । पञ्चारत्नयो । रथपर्थः । द्वौ अरनी' क्षुद्रपशुमनुष्यपथः । प्रवीरे वास्तुनि राजनिवेशश्चातुर्वर्ण्यसमाजीवः । वास्तुहृदयादुत्तरे नवमे" भागे यथोक्तमन्तःपुरविधीनं प्राग्मुखमुदग्मुखं वा स्थापयेत् । तस्य पूर्वोत्तरं भागमाचार्यपुरोहितेज्यातोयस्थानं मंत्रिणश्चाधिवसेयुः। पूर्वदक्षिणभागं महानसं हस्तिशालाः कोष्ठागारं च । ततः ॥ परं गंधमाल्यधान्यरसपण्याः प्रसाधनकारवः । क्षत्रियर्थं पूर्व दिशमधिवसेयुः । दक्षिणपूर्वभागं भाण्डागारमक्षपटलं कर्मनिषद्याश्च । दक्षिणपश्चिमभा[४८ प्र. ]गं कुप्यगृहमायुधागारं च । ततः परं नगरधान्यव्यावहारिककान्तिकबलाध्यक्षाः 'पक्वान्नसुरामांसपण्याः रूपाजीवास्तालावचरा वैश्याश्च दक्षिणां दिशमधिवसेयुः। पश्चिमदक्षिणं भागं खरोष्ट्रगुप्तिस्थानं कर्मगृहं च ।। [पिश्चिमोत्तरभागं यानरथशालाः। ततः परमूर्णासूत्रवेणुचर्मवर्मशस्त्रावरणकारवश्शूद्राश्च पश्चिमां दिशमधिवसेयुः।] उत्तरपश्चिमं भागं पण्यभैषज्यगृहम् । उत्तरस(पूर्वभाग कोशो गवाश्वं च। ततः परं नगरराजदेवतालोहमणिकारवो ब्राह्मणाश्चोत्तरां दिशमधिवसेयुः। वास्तुच्छिद्रानुशालेषु श्रेणीप्रणिनिकाया वसेयुः। अपराजिताऽप्रतिहतजयंत वैजयन्त कोष्ठान शिववैश्रवणाश्विश्रीमदिरागृहाणि" च पुरमन्ये(ध्ये) कारयेत् । यथोद्देशं वास्तुदेवता[:] स्थापयेत् । ब्राहयैद्रयाम्यसैनापत्यानि द्वाराणि । बहिः परिखायाः धनुःशतावकृष्टाश्चैत्यपुण्यस्थानवनसेतुबन्धाः कार्याः । यथादिशं च दिग्देवताः। 20 1st स द्वादश। 2 SIG भूमि° 1 3 SJ सयोनीयः। 4 SIG श्वाष्टदण्डा। 5 SJG 'इति' नास्ति । 6 SIG स्थपथश्चत्वारः पशुपथः। 7 sJG 'अरनी' नास्ति । 8 5 निवेशाः; svl निवेशः। 9 sJG जीवे । 10 SJG नवभागे। 11 SG 'यथोक्तविधानमन्तःपुरविधानं' नास्ति । 12 SJG कारयेत् । 13 SIG आवसेयुः । 14 SJG दक्षिणं भागं। 15 SJG प्रधानकारवः। 16 SIG क्षत्रियाश्च । 17 8JG पूर्व भागं । 18 sJG °पश्चिमं भागं । 19 sJd काान्तिक । 20 ताळापचारा; J तालापचारा। 21 SI °दिशाम । 22 SG पूर्व भागं। 23 SIG °छिद्रानुलासेषु । 24 sIG प्रवहणी; svl प्रवहणि" 1 25 s आपराजिता। 26 SIG जयंतवैजयन्तकोष्ठकान् । 27 SIG गृहं । 28 SIG कोष्टकालयेषु यथोरेशं; svl कोठालेषु । 29svl परिषायाः। 30 शतापट्टष्टा । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118