Book Title: Arthashastra aparnama Rajsiddhanta
Author(s): Kautilya Acharya, 
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

Previous | Next

Page 106
________________ सटिप्पनकं कौटलीयमर्थशास्त्रम् ६१ गुल्मविषवल्लीप्रतानवन्तम् । पांशुशेषेणं वास्तुच्छिद्रं राजभवनं वा पूरयेत् । वप्रस्योपरि प्राकारं विष्कम्भद्विगुणोत्सेधमैष्टकं द्वादशहस्तादूर्ध्वमोज - युग्मं वा आचतुर्विंशतिहस्तादिति कारयेत् । रथचर्यासञ्चारं तालमूलं मुरजकैः कपिशीर्षकैश्चाचिताग्रम् । पृथुशिलासंहतं वा शैलं नत्वेव काष्ठमयं कारयेत् । अग्निरवहि [ तो हि] तस्मिन् वसति । विष्कम्भचतुरस्रमट्टालकमुत्सेधसमावक्षेपसोपानं कारयेत् । द्वयोरट्टालकयोर्म्मध्ये सहर्म्यद्वितलीमध्यर्द्धायामां मंतोलीं कारयेत् । अट्टालक[] ४५ द्वि.] प्रतोलीमध्ये त्रिधानुष्काधिष्ठानं सपिधानच्छिद्रफलकसंहतमिंद्रकोशं कारयेत् । अन्तरेषु द्विहस्तविष्कम्भं पार्श्वे चतुर्गुणायामं देवपथं कारयेत् । दण्डान्तरा 10 द्विदण्डान्तरा वा चैर्याः कारयेत् । अंग्राह्ये देशे प्रधावनिकी निष्किरद्वारं च । बहिर्जानु भंजनी [त्रि ] शूलप्रर्केर कूपकूटावपातकण्टकप्रतिसरा हिपृष्ठतालपत्र शृङ्गाटकश्वदंष्ट्रार्गलोपस्कन्न पादुकाम्बरीपकोदपानकैः प्रतिच्छन्नं" छन्नपथं कारयेत् । प्राकारमुभयतो मेंढकैमध्यर्धदंडं कृत्वा प्रतोलीषट्तुलांतरं द्वारं निवे- 1 शयेत् । पञ्चदण्डादेकोत्तरमा अष्टदण्डादिति चतुरस्रं षड्भागमायामादधिकमष्टभागं वा । पञ्चदशहस्तादेकोत्तरमा ४६ प्र. ] अष्टादशहस्तादिति तैलोत्सेधः । स्तम्भस्य परिक्षेपः षडायामी द्विगुणो निखातश्चलिकायाश्चतुर्थो भागोवेति" । आदितलस्य पंचभागाः शाला वापी सीमागृहं च । दशभागिकौ द्वौ प्रति मंचौ । तद्यथा । एवं भागास्तले कार्याः प्रत्यंशं पंचकोष्ठकाः । यथायोगं विभागोऽत्र शालासीमागृहादिषु ॥ 1 sJo पांसु । 2 SJ विशेषेण । 3 SJG 'राजभवनं' नास्ति । 4 SJC ओजं युग्मम् । 5 Grl °चारचिताग्रम् | 6 sJ सहितं; a संहितं । 7 SJG शैलं कारयेत् । न त्वेव काष्ठमयमग्नि ं । 8 SJ द्वितयर्धायाम; Jvl मर्धायामां । 9s प्रतोळीं । 10 svla सापधान । 11 sJa 'मितीन्द्रकोशं । 12 sJG चतुर्गुणायाममनुप्राकारमष्टहस्तायतं देवपथं । 13 sJ चर्या ; svl चर्याः; वाचार्याः । 14 sJ आप्राये । 15 sra प्रधावितिकां । 16 sJ निष्कुर'; svl निष्कर; निष्कुह । 17s भगिनीं; svl 'भयञ्जनी | 18 SJ त्रिशूलप्रकारकूश' ; svl आशूलप्रकर कूपकूश । 19s ळोप | 20 SJG स्कन्दन° । 21 sJa षोदपानकैः । 22 sJG 'प्रतिच्छन्नं' नास्ति । 23 SJ मण्डलक; svl मण्डक; G मण्डपक । 24 sJG उत्तरवृद्ध्याऽष्टदण्डा । 25 sJvl षमागायामा; Jvl षङ्गागममा । 26 तुलो | 27 svl क्षेप | 28 svl षडायामो; J लषडायामो । 29 sJa चतुर्भागः । 30 SJC 'वेति' नास्ति । 31 BIG 'तद्यथा' इत आरभ्य 'कोष्ठकत्रयम्' इत्यन्तः पाठो नास्ति । Jain Education International For Private & Personal Use Only 20 www.jainelibrary.org

Loading...

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118