Book Title: Arthashastra aparnama Rajsiddhanta
Author(s): Kautilya Acharya, 
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

Previous | Next

Page 104
________________ सटिप्पनकं कौटलीयमर्थशास्त्रम् वेशनिष्कासं नागवनपालैः पालयेत् । हस्तिघातिनं [ ४३ प्र.] हन्युदन्तयुगं स्वयं मृतस्याहरतः सपादचतुष्पणो लाभः । नागवनपाला हस्तिपक-पादपाशिक-सैमिक-वनचरक-पारिकर्मिकसखाः हस्तिमूत्रपुरीषच्छन्नात्मगन्धा भल्लातकीशांखापत्रप्रच्छन्नाः पञ्चभिः सप्तभिर्वा हस्तिबन्धकीभिः सह चरन्तः शय्यास्थान[प]द्यालेंडनदीकूलघातोद्देशेन हस्तिकुलपर्यग्रं विद्युः । __ यूथचरमेकचरं नियूथं यूथपति हस्तिनं व्यालं मत्तं पोतं बद्धमुक्तं च निबन्धेन विद्युः। [ ४३ द्वि. ] अनीकस्थप्रमाणैः प्रशस्तव्यञ्जनाचारान् हस्तिनो गृह्णीयुः । हस्तिप्रधानो विजयो राज्ञः । परानीकव्यूहदुर्गस्कंधावारप्रमर्दना ह्यतिप्रमाणशरीराः प्राणहरकर्मणो हस्तिनः। कालिङ्गागरजाः श्रेष्ठाः प्राच्याश्चेदि करूजाः। . दशार्णाश्चापरांताश्च गजानां" मध्यमा मताः॥ . सौराष्ट्रकाः पाञ्चनदास्तेषां प्रत्यवा(व)राः स्मृताः।। इति ॥ {उत्कलानां च देशस्य दक्षिणस्यार्णवस्य च । सह्यस्य च कलिंगस्य मध्ये कालिंगकं वनम् ॥ तथा। विदेशं नर्मदा चैव ब्रह्मवर्द्धनमित्यपि । मध्ये च पारियात्राणां वनं स्यादांगरेयकम् ॥ इति वनद्वयजाः श्रेष्ठाः। लोहित्यस्य प्रयाग[ ४४ प्र. ]स्य गंगाहिमवतोरपि । मध्ये प्राच्यं वनं तत्र संभवंति दिशां गजाः ॥ [तथा] मिकला त्रिपुरी चैव दशार्णो देश इत्यपि । उन्मत्तगंगामित्येषां मध्ये चेदिकरूषकम् ॥ तथा। 1 SIG °निष्कसनं; svl निष्कासम् । 2 SIG मृगस्याहरतः । 3 SIG 'आत्म' नास्ति । 4 SIG शाखप्रातिच्छन्नाः; avl शाखाप्रतिच्छन्नान् । 5 SIG °पद्यालण्डकूल । 6 SIG °कूलपातो'; svl कूलपोतो। '7 syl avl बन्ध; avl बद्धं मुक्तम् । 8 SIG राज्ञाम् । 9s प्राणहरकर्माणो। 10 SG हस्तिन इति । 11 s कलिग; JG कलिङ्ग। 12 SIG °गजाः। 13 SI प्राच्याश्चेति । 14 SIG करूशजाः। 15 SIG द्विपाना। 16 SIG सौराष्ट्रिकाः। 17 SIGvl पाञ्चजनाः। 18 SIG प्रत्यवराः । 19 SIG 'इति' नास्ति। ({1} एतचिहांकिताः श्लोकाः मुद्रितेषु पुस्तकेषु नोपलभ्यन्ते) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118