Book Title: Arthashastra aparnama Rajsiddhanta Author(s): Kautilya Acharya, Publisher: Singhi Jain Shastra Shiksha Pith MumbaiPage 97
________________ सटिप्पनकं कौटलीयमर्थशास्त्रम् [आत्मरक्षितकम् ।] . शयनादुत्थितः स्त्रीगणैर्धन्विभिः परिगृह्येत । द्वितीयस्यां कक्षायां कञ्चकोष्णीषिभिर्वर्षधराभ्यागारिकैश्च तृतीयस्यां कुनवामनकिरातैश्चतुर्थ्या मन्त्रिभिः संबन्धिभिदौ ३७ प्र. वारिकैः प्रासंपाणिभिः । पितृपैतामहमहासम्बन्धानुबद्धं शिक्षितमनुरक्तं कृतकर्माणं चं जनमासन्नं कुर्वीत । नान्यतोदेशीयमकृतार्थमानम् । स्वदेशीयं वापकृत्योपगृहीतम् । अंतर्वशिकसैन्यं राजानं अन्तःपुरं च रक्षेत् । __ गुप्ते "देशे माहानसिकः सर्वमास्वादबाहुल्येनं कर्म कारयेत् । तंद्राजा तथैव प्रतिभुञ्जीत। पूर्वमग्नये वयोभ्यश्च बलिं कृत्वा प्रतिभुञ्जीत । १ पंचादिपरिकल्पितो जनसमूहो गणः । तथा चोक्तम् पंचावरं गणं विद्यादाशतादिति भार्गवः। यथासामर्थ्य मित्येवं बार्हस्पत्याः प्रचक्षते ॥ २ धनुर्वेदप्रवीणैः । राजशरीररक्षार्थम् । अन्येषां शस्त्रिणां अंतःपुरे अप्रवेशात् । धनुर्महणं च सर्वायुधाधिक्यप्रदर्शनार्थमुक्तम् । ___ यान्यायुधानि शस्त्राणि स्थावराणि घराणि च। धनुषो गोचरे तानि न तेषां गोचरे धनुरिति । ३ प्रथमकक्षायामिति शेषः। ४ कंचुका भाप्रपदीनाः कूर्पासकाः । उष्णीषाः सर्वमुखव्यापीति शिरोवेष्टनानि । तानि वियते _ येषां वर्षधरादीनाम्। ५ यौनादिः संबंधः। ६ क्षेप्यायुधहस्तैः। ७ * (विस्तृताऽत्र टिप्पणी दृश्यते । परं विनष्टाक्षरा इति नोद्धर्तुं शक्यते।) ८कृतं बहुशः समरेषु अद्भुतं कर्म येन तं जनं शस्त्रपाणिं आसनम् । ९ तमपि कृतार्थमानं शिक्षितमनुरक्तं कृतकर्माणं आसनं कुर्वीत । १०पितृपैतामहादिकम् । ११ आसनं च कुर्वीतेति संबंधः । उक्तं चअपराद्धानि मित्राणि भृत्यानपि विरोधितान् । ..........श्वासान्न कुर्वीत विचक्षणः ॥ १२ पूर्वोक्तम् । १३ ..................मभिधाय रसदेभ्योऽभिधातुमाह । १४ नियुक्तव्यतिरिक्तानां अदृश्ये । १५ शाकतंदुलादि। १६ परिचारकपेषकपाचकादिभिः क्रमेण आस्वादितः। १७ ने(१)ति संबन्धः। १८ यदि न विषलिंगम् । 1 SIG °क्ष्या 1 2 SIG °वरा । 3 SJG 'च' पतितः। 4 SIG 'च' पतितः। 5 s वाऽप्य'; JG वाप्यपकृ । 6 SIG 'प्रतिभुञ्जीत' इति नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118