Book Title: Arthashastra aparnama Rajsiddhanta
Author(s): Kautilya Acharya, 
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

Previous | Next

Page 91
________________ सटिप्पन कौटलीयमर्थशास्त्रम् त्रिपौरुषी पौरुषी चतुरंगुला नष्टेच्छायों मध्याह्न इति चत्वारः पूर्वेदिवसस्याष्टभागाः। {छायापौरुषाभिधानस्य द्वादशांगुलशंकोस्तत्प्रमाणेन वा दिनविभागस्तदेवाह त्रिपौरुषीति । आदित्योदये षण्णवत्यंगुला पौरुषच्छाया भवति । सा । यदि त्रिपौरुषी षट्त्रिंशदंगु ३२ द्वि.लावशिष्यते । तदा पूर्वो दिवसस्याष्टभागो व्यतीतो भवति । यदा पौरुषी द्वादशांगुला तदा द्वितीयोऽष्टभागः । यदा चतुरंगुला तदा तृतीयोऽष्टभागः । यदा शंकुमूलप्रविष्टा च्छाया भवति तदा चतुर्थोऽष्टभागः । नष्टच्छायो मध्यान्ह इति चत्वारः पूर्वेदिवसस्याष्टभागाः॥ अतिदेशमाह ॥ छ ॥} तैः पश्चिमा व्याख्याताः। तत्र पूर्वेदिवसस्याष्टभागे रक्षाविधानमायव्ययौ च शृणुयात् । द्वितीये पौरजानपदानां कार्याणि पश्येत् । तृतीये स्नानभोजन सेवेत् । चतुर्थे हिरण्यप्रतिग्रहमा ३३ प्र. ध्यक्षांश्च कुर्वीत। पञ्चमे मन्त्रिपर्षदा पत्रसंप्रेषणेन मंत्रयेत् , चारगुह्यबोधनीयानि बुद्ध्येत । षष्ठे स्वैरेविहारं मंत्रं वा सेवेत । सप्तमे हस्त्यश्वरथायुधीयान् पश्येत् । अष्टमे 15 सेनापतिसखो विक्रमं चिन्तयेत् । १ विभक्ताहोराने। २ नागरिकवदेष्टुसमाहर्त्रतपालादिभिः प्रजानां रक्षाविधानं दैवमानुषपीडादि । ३ अध्यक्षातिसंधान निवारणार्थम् । ४ धर्मस्थीयकंटकशोधनोक्तविधिना व्यवहारान् । ५ व्यायामोपलक्षणार्थम् । ६ देवपित्रतिथिपूजोपलक्षणार्थम् । ७ समाह दिसमानीतहिरण्यस्य स्वस्थचित्तत्वात् कुर्वीत । स्वयं दृष्टस्य न परिवर्तनादि ___ संभवतीति । अध्यक्षबुद्धिषणे दृष्टेऽन्यान् कुर्वीत । ८ संज्ञाभिः। ९ न तैः सुखं स्यादिति गीत्तनृत्तादिनिमित्तं विह.........। १० सति कार्योत्थाने । ११ स्नानभोजनसंतुष्टान् सारफल्गुविभागार्थम् । १२ प्रकाशकूटयुद्धव्यूहरचनादिभिः प्रतिदिनं चिंतितश्च विक्रमः सुश्लिष्टो भवति । 1 SIG 'नष्ट' नास्ति 2 5 °लाऽच्छायो'; svl °ला च छाया; a °ला च च्छाया। 3 SI 'चत्वारः' नास्ति; svl चत्वारः पूर्वे । 4 SIG मुद्रितेषु सर्वेषु पुस्तकेषु, 'छायापौरुषाभिधानस्य' इत्यारभ्य 'अतिदेशमाह' इति पर्यन्तानि वाक्यानि नोपलभ्यन्ते । 5 SIG मुद्रितेषु पुस्तकेषु 'सेवेत' इत्यनन्तरं 'खाध्यायं च कुर्वीत' इति पठ्यते। 6 Jvl प्रगहं । 7 SJC- परिषदा। 8 SJG मंत्रयेत । 9 SIG च बुद्ध्येत । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118