Book Title: Arthashastra aparnama Rajsiddhanta Author(s): Kautilya Acharya, Publisher: Singhi Jain Shastra Shiksha Pith MumbaiPage 89
________________ सटिप्पनकं कौटलीयमर्थशास्त्रम् तथाऽप्यतुष्यंतमन्यस्मिन् पुत्रे [३१ प्र.] दारेषु वा नियंतं तदनुरोधाद्वा द्वेषेणारण्यायापृच्छेत । वर्धबन्धभयाद्वा यस्सामन्तो न्यायवृत्तिर्धार्मिकः सत्यवागविसंवादकः प्रतिग्रहीता मानयिता चाभिपन्नानां तमाश्रयेत् । । तत्रस्थः कोशंदंडसंपन्नः प्रवीरपुरुषकन्यासंबंधम[टवीसम्बन्धं] कृत्यपक्षोपग्रहं च कुर्यात् । । ____एकचरः सुवर्णपाकमणिरागरसरूप्यपण्याकरकर्मान्तानाजीवेत् । पार्षण्डसङ्घद्रव्यमश्रोत्रियोऽपरंभोग्यं वा देवदैव्यमाढ्यविधवां" गूढमनुप्रविश्य सार्थयानपात्राणि च मदनरसयोगेनातिसंधाय तद् द्रव्यमपहरेत् । पारिग्राहिकं वा योगमातिष्ठेत् । मातुः परिजनोपग्रहेण वा 'चेष्टेत । कारुशिल्पिकुशीलवचिकित्सकवाग्जीवनपाषंडछद्मभिर्वा नष्टरूपस्तव्यञ्जनसंखः "छिद्रेषु३ प्रविश्य राज्ञः शस्त्ररसाभ्यां प्रहत्य ब्रूयादहमसौ कुमारः सहभोग्यमिदं [३१ द्वि.] राज्यमेको नार्हति भोक्तुं ये" कामयंते मां भैर्तुस्तानहं द्विगुणेन भक्तवेतनेनोपस्थास्यामीत्यपरुद्धवृत्तम् । ॥ इति विनयाधिकारिकेऽपरुद्धवृत्तं प्रकरणं" ॥ छ । १ स्वभावद्वेषात् । २ अन्यपुत्रदारानुरोधाद्वा भतुष्यंतम् । ३ अरण्यं तपसे यास्यामीति । ४ * ५ * १५० ७ धर्मविजयिनः कुमारस्य कोशोपार्जनोपायमुक्त्वा लोभविजय(यि)नः प्रोच्यते । - वक्ष्यमाणमदनीयमोहनीययोगैवैदेहकव्यंजनहस्तेन धनपतीनतिसंधायापहरेत् तेषां धनमित्यर्थः। ९ दुर्गलं भोपायाभिहितप्रयोगैरुपजापादिभिर्दुर्गसंस्थं द्रव्यमपहरेदित्यर्थः । १० भात्मनः शक्त्युपचयं कुर्यात् । ११ प्रच्छादितपूर्ववर्णवेषादि । वटकषायनातः सहचरकल्कदिग्धः कृष्णो भवतीत्यादिप्रयोगैः । १२ का दिव्यंजनानां सखा भूत्वा । १३ रक्षाशैथिल्येषु । १४ एकलोष्ठवधप्रतिषेधार्थम् । ___1 SIG बन्धवध । 2 प्रतिगृहीता। 3 SJG °माश्रयेत । 4 s कोदण्ड; svl कोशदण्ड । 5 °गृहं। 6 SIG वा। 7 svl सुपर्ण । 8 SIG हेम। 9 SIG श्रोत्रियभोग्यं। 10 G देश । 11SJ वा गूठं; G विधवाद्रव्यं वा । 12s पात्रणि । 13 SJ सन्धायापहरेत् ; 4 °वहरेत् । 14 SIG पारग्रामिक। 15 G पाषण्डच्छ। 16 sJG छिद्रे। 17 SJG तत्र ये। 18 SJG 'मां' नास्ति। 19 s मतुं (svl भर्तु) नाहं ( svl तानहं ); J भर्तुं नाहं; G भर्तु तानहं। 20 SIG नोपस्थास्ये इति। 21 SIG इत्यवरुद्ध । 22 SJG 'इति...प्रकरणं' नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118