Book Title: Arthashastra aparnama Rajsiddhanta Author(s): Kautilya Acharya, Publisher: Singhi Jain Shastra Shiksha Pith MumbaiPage 90
________________ * सटिप्पन कोटलीयमर्थशास्त्रम् ४५ • अपरुद्धं तु मुख्यपुत्रविसर्पाः प्रतिपाद्यानयेयुर्माता वा प्रतिगृहीता । त्यैक्तं वा गूढपुरुषाः शस्त्ररसाभ्यां हन्युः । अत्यतं तुल्यशीलाभिः खीभिः पानेन मृगयया वा प्रसंजयित्वा रात्रावुपगृह्यानयेयुः। उपस्थितं च राज्येन मंदूर्ध्वमिति सांत्वयेत् । एकस्थमथ संरुन्ध्यात् पुत्रवांस्तु प्रवासयेत् ॥ ॥ इति विनयाधिकारिके अष्टादशोऽध्यायः ॥ छ । [३२ प्र.] [राजप्रणिधिः ।] राजानमुत्थितमनूत्तिष्ठते भृत्याः। प्रमाद्यन्तमनुप्रमाद्यति । कर्माणि चास्य भक्षयंति द्विषद्भिश्चातिसंधीयते । तस्मादुत्थानमात्मनः कुर्वीत । नालिकाभिरहरष्टधा विभज्य रात्रिं च विभजेत् । छायाप्रमाणेन वा ।। १ पूर्व दुष्टे पितर्यदुष्टस्यापरुद्धस्य वृत्तमभिहितं भविष्यतो राज्ञो रक्षार्थमिदानी दुष्टेऽपरुद्ध अदुष्टस्य राज्ञो वृत्तिरभिधीयते। २ मंत्र्यादिपुत्रास्त एवावसा राज्ञा प्रणिहितत्वात् प्रतिपाद्य वा राज्यमानयेयुः। माता वा तस्य प्रतिग्रहीता राज्ञोपचारैरावर्जिता आनयेत् । ३ दौष्ट्यावसंधेयम् । ४ अदुष्टम् । ५ मस्परोक्षे तवैव राज्यमिति सांस्वयेदनुनयेत् बुद्धिमन्तम् । आहार्यबुद्धिं तु एकस्थं निरुद्धसंचारं संरुध्यात् । दुर्बुद्धिं तु पुत्रवांश्चदन्यस्मिन् योग्ये पुत्रे सति प्रवासयेद् उपांशुवधेन हन्यात् । राज्यरक्षार्थ सावद्यलेशो बहुपुण्यराशिरिति वचनात् । ६ आसमतरेभ्यः पुत्रेभ्यो रक्षणमभिधायासनेभ्यो मंत्र्यादिभ्यो रक्षाप्रकारमाह । ७ राजानमुत्थितं स्वव्यापारे सततोद्युक्तं अनूतिष्ठन्ते अनंतरमेवोत्तिष्ठते स्वव्यापारेषु सततो. यूक्ता भवंति । स यच्छीलस्तच्छीलाः प्रकृतय इति वचनात् । उक्कं च यस्किचिरकुरुते राजा शुभं वा यदि वाऽशुभम् । भृत्यास्तदनुकुवंति नर्तक्यो नर्तकं य [था] ॥ ......च भृत्येषु राज्ञो रक्षा संपद्यते । स्वयमुद्यूक्तो राजा न स्वैः परैश्वातिसंधीयते। एवं स्वतोऽपि रक्षा। प्रमाद्यंत इंद्रियार्थेषु प्रसज्यंतमनुप्रमाद्यति । उक्तं च राजानूस्थीयंते न स्वैः स्वयं कार्येष्वनुत्थितः।। न ह्युद्योगोऽस्ति गात्राणामनुद्युक्तेन्तरात्मनीति ॥ ततश्च रक्षाशैथिल्यं भवतीति भावः । दोषांतरं च दर्शयति । कर्माणि च । उपचारासमाहर्तारः कर्मणां फलानि चास्य भक्षयंति । राज्ञो निरवधानत्वात् । भक्षितवामने च कृत्याः परेषां भक्षयन्ति ततश्च प्रमादः । अत एव द्विषद्भिश्चातिसंधीयते । तस्मादुस्थानमुद्योगमात्मरक्षार्थ कुर्वीत । अनुष्ठानानां कालविभागार्थमाह । 1 SIG अवरुद्धं । 2 SJ पुत्र। 3 SJG °मपसर्पाः। 4 SJG 'वा' नास्ति । 5 sJG प्रसज्य रात्रा । 6 J ममोर्ध्वमिति । 7 SJG वा। 8 अवरुद्ध वृत्तमवरुद्धे च वृत्तिः अष्टा'; J प्रथमेऽधिकरणेऽवरुद्ध अष्टा'; G प्रथमाधिकरणे अष्टा अवरुद्ध। 9 sJG नमुतिष्ठमानम् ; svl नमुत्थितः। 108 नाळिका: J नाडिका: G नालिका। 11 SJG 'विभज्य' नास्ति। 12J विभजेत। Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118