Book Title: Arthashastra aparnama Rajsiddhanta
Author(s): Kautilya Acharya, 
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

Previous | Next

Page 78
________________ सटिप्पनकं कौटलीयमर्थशास्त्रम् • आत्ययिक कार्ये मन्त्रिणो मन्त्रिपरिषदं चाहूय ब्रूयात् । तत्र यद्भूयिष्ठा ब्रूयुः कार्यसिद्धिकरं च तत्कुर्यात् । नास्य गुह्यं परे विद्युच्छिद्रं विद्यात्परस्य चे। गूहेत्कूर्म इवाङ्गानि यत्स्याद्विवृतमात्मनः ॥ यथा ह्यश्रोत्रियः श्राद्धं न सतां भोक्तुमर्हति । एवमश्रुतशास्त्रार्थो न मंत्रं श्रोतुमर्हति ॥ तथा च बृहस्पतिः अनधीत्य हि [२५ द्वि.] शास्त्राणि बहवः पशुबुद्धयः। प्रागल्भ्याद्वक्तुमिच्छंति मंत्रेष्वभ्यंतरीकृताः॥ अनर्थविदुषां तेषां श्रोतव्यं नहि भाषितम् । • .अर्थतत्त्वमविज्ञाय विपुलं श्रेय इच्छता ॥ इति विनयाधिकारिके पञ्चदशोऽध्यायः ॥ [दूतप्रणिधिः।] उद्धृतमन्त्री दूर्तप्रणिधिः । अमात्यसम्पंदोपेतो निसृष्टीर्थः । पादगुण १ विनाशोन्मुखे। २ विवक्षितमिति शेषः। ३ कुर्वतश्चेत्युत्तरेण संबंधः। ४ पूर्वोक्तचक्षुस्त्रयेण । ५ चकारात् आत्मनश्च परस्त्र प्रहर्तुमात्मनो निगूहनार्थम् । ६ आत्मन इति मंत्र एवारमा राज्ञः। ७ श्रोत्रियाणाम् । ८ भनधीतनीतिशास्त्रः। ९ दुनोति शत्रु स्वानुष्ठानेनेति दूतस्तस्य प्रणिधानं खण्यापारे स्थापनं दूत एव वा प्रणिधिः । प्रणिधिशब्दस्य चरपर्यायत्वात् । शत्रुवृत्तांतोऽ......नापि ज्ञातव्य इति । गृहीतो मंत्राधि. कारात् । मंत्रो येन स प्रतिष्ठेतेति संबंधः। १० जानपदादिपंचविंशतिगुणपरिकल्पितया उपेतो युक्तः । ११ निसृष्ट उत्सृष्टो नियमाभावारसंधिविग्रहादिको अर्थों यस्य । 1 SIG कार्यसिद्धिकरं वा ब्रूयुः। 2 SIG कुर्यात् । कुर्वतश्च । 3 SJG मुद्रितेषु पुस्तकेषु एते श्लोकाः न सन्ति। 4 s मन्त्राधिकारः पञ्चदशो'; J प्रथमेऽधिकरणे मन्त्रा' पञ्च; G प्रथमाधिकरणे पञ्च° मन्त्रा 1 5 SJ उद्धृत । सटि. कौट. अर्थ.5 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118