Book Title: Arthashastra aparnama Rajsiddhanta
Author(s): Kautilya Acharya, 
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

Previous | Next

Page 85
________________ ४० सटिप्पनकं कौटलीयमर्थशास्त्रम् वत्सस्थानमेतदिति कौणपदन्तः। वत्सेनेव हि धेनुं पितरमस्य सामन्तो द्रुह्यात् । तस्मान्मातृबन्धुषु वासः श्रेयान् । ध्वजस्थानमेतदिति वातव्याधिः। तेन हि ध्वजेनादितिकौशिकवदस्य मातृबान्धवा भक्षेरन् । ग्राम्यसुखेष्वेनमवसृजेत् । सुखोपरुद्धा राजपुत्राः । पितरं नाभिद्रुह्यन्तीति । जीवन्मरणमेतदिति कौटल्यः। काष्ठमिव धुंणजग्धं राजकुलमविनीतपुत्रमभियुक्तमानं भज्येत । तस्मादृतुमत्यां महिष्यां ऋत्वि! २९ प्र. ] जैश्चरुमैन्द्राबार्हस्पत्यं निर्वपेयुः । आपन्नसत्त्वायाः कौमारभृत्ये गर्भकर्मणि प्रेसवे च वियतेत । प्रजातायाः पुत्रसंस्कार पुरोहितः कुर्यात् । समर्थ ॥ तद्विदो विनयेयुः। १ तेन च पुष्टो भूत्वा कुमारसहायोऽभियुंज्यादिति भावः । २ मातुलादिषु । ते ह्यस्य पितरं स्वापत्यवैधव्यभयानातिदुयन्तीति भावः । ३ तदेव व्याचक्षते । तेन ध्वजेन कुमारेण । ४ ध्वजचिन्हं नागराजादीनां तत्स्थानसमानमेतत् । ५ अदितिग्रहणमदितिपुत्राणां कालादिदेवानां परिग्रहार्थम् । कौशिकस्त्वाहितंडिकः कोशेन सर्प ग्रहेण चरतीति । अदितिवद्देवध्वजं दर्शयित्वा । तद्यथा। पणमहेत्यादिः कौशिको भिक्षते। योऽस्य नागस्य पूजा करोति तस्य सकुलस्य कुशलमकुशलमन्येषामिति निग्रहभयमनुग्रहाशां च.........कृतीः कर्षयित्वा तेनोपचयं कृत्वा मातृबांधवा अभिद्रुह्यतीति भावः। ६ ग्राम्यशब्देन शब्दस्पर्शरूपरसगंधाभिधाना विषया ग्राह्याः । ग्रामाणां साधूनि ग्राम्याणि विषयसुखानीत्यर्थः। ७ निरंकुशमिति शेषः। ८ परेणेति शेषः। ९ अनागतमेव कृतकोष्ठशुध्यां शालिघृतक्षीरपथ्याहारायां राज्यां ऋत्विजः । १० इन्द्रो बृहस्पतिश्च देवता अस्येति । ११ कुमारभृतये साधु कौमरभृत्य बालवैद्यं हिरण्याक्षीयं जीवकीयं वा यो वेत्ति स बालवैद्यो गर्भकर्मणि गर्भ......... १२ प्रसवे सुखप्रसूतौ च यत्नं कुर्यात् । एतेन राजपुत्ररक्षा भवति । तथा चोक्तं .........वथ योनौ च गर्भे कर्मणि चापि यः। शुचिः कृच्छ्रगतस्यापि न पापे रमतेऽस्य धीः ॥ १३ प्रसूताया। १४ जातकर्मादिभिः।। १५ अध्येतुं योग्यम् । १६ लिपिसंख्यानादिसकलराजविद्याधिदः । 1 SIG श्रेयानिति । 2 SJG भिक्षेरन् । 3 SJG तस्मात् ग्राम्यधर्मे प्वेनं। 4 SJCE °सृजेयुः। 5 sJG हि पुत्राः। 6 sJG हि घुण। 71 इन्द्र। 8 JG सत्वायां । SJG9 °भर्मणि । 10 SJ प्रजनने: svavl प्रसवने; G प्रजने । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118