Book Title: Arthashastra aparnama Rajsiddhanta Author(s): Kautilya Acharya, Publisher: Singhi Jain Shastra Shiksha Pith MumbaiPage 81
________________ सटिप्पनकं कौटलीयमर्थशास्त्रम् मन्येत । वाक्यमनिष्टं सहेतै। स्त्रियः पानं च वर्जयेत् । [२७.] एकः शयीत । सुप्तमत्तयोहि भावज्ञानं दृष्टम् । कृत्यपक्षोपजापमकृत्यपक्षे गूढप्रणिधानं रोगापरागौ भर्तरि । रन्धं च प्रकृतीनां सिद्धतापसवैदेहकव्यञ्जनाभ्यामुपलभेत । तयोरेन्तेवासिभिश्चिकित्सकपाषंडव्यञ्जनोभयवेतनैर्वा । तेषामसम्भाषायों 5 याचनकमत्तोन्मत्तसुप्तप्रलापैः पुण्यस्थानदेवगृहंचित्रलेख्यसंज्ञोंभिर्वा चारमुपलभेत । उपलब्धस्य उपजापमुपेयात् । परेण चोक्तः स्वासां प्रकृतीनां प्रमाणं नाचक्षीत । सर्व वेद भवानिति ब्रूयात् । कार्यसिद्धिकरं" वा ब्रूयात् कार्यस्यासिद्धावुपरुध्यमानस्तयेत्। १ उक्तं च-वासुदेवसहायोपि यो हतो हत एव सः। २ परेणोक्कमिति शेषः। ३ दूतकार्यसिध्यर्थम् । ४ प्रमादमंत्रभेदयोः प्रतिषेधार्थम् । ५ चित्त.........मंत्रस्य । ६ अन्यच्च। ७ उक्तेन न्यायेन । ८ कृत्यतापादनार्थम् । ९ अनुरक्तानां.........नार्थम् । १० विरक्तानां स्वीकरणार्थम् । ११ छिद्रम् । १२ तासामेव । परेति शेषः । १३ तयोरेव । १४ असंभाषायां शत्रुकृतनिषेधात् । १५ कृतक। १६ शालादि । १७ तेषु सर्वसाधारणत्वात् । १८ अक्षराणाम् । १९ शरीरविन्यासकल्पितया संज्ञया । २० कृत्यपक्षमुद्दिश्य । २१ मंञ्यादीनाम् । २२ चारचक्षुः। २३ सप्रशंसम् । २४ अधिके न्यूने वा प्रकृतिप्रमाणे कथिते कार्यसिद्धिं यदि पश्यति तथा ब्रूयात् । २५ उपरोधकारणान्युद्भावयेत् । 1 J मन्येत् । 2 svl रागोप। 3 SJG 'सिद्ध' नास्ति । 4 sJE याचक। 5 svl avl विचित्र । 6 SIG परिमाणं । 7 SJG 'ब्रूयात्' नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118