Book Title: Arthashastra aparnama Rajsiddhanta Author(s): Kautilya Acharya, Publisher: Singhi Jain Shastra Shiksha Pith MumbaiPage 30
________________ कौटलीय-राजसिद्धान्तटीका [भूमिच्छिद्रापिधाननामा द्वितीयोऽध्यायः।] भूमिच्छिद्रापिधानमिति सूत्रम् ॥ [२.२.१] भूमेश्छिद्रमिव च्छिद्रमकृष्यत्वं धान्याद्यभावात् । अपिधानमावरणमपिधानमिवापिधानम् । धर्मार्थकामाख्यफलखभावात् । अपिपूर्वो दधातिरावरणे वर्त्तत इति सूत्रार्थः । सम्बन्धस्तु जनपदनिवेशशेषमेवैतत् । कृष्यायां भूमौ निवेश उक्तः । अकृष्यायामुच्यत इति॥छ। 5. अकृष्यायां भूमौ पशुभ्यो विवीतानि प्रयच्छेदिति ॥ [२.२.२] पाषा[6B]णादिभिरकृषियोग्यायां भूमौ पशुभ्यो गोमहिष्यादिभ्यो विवीतानि तृणारण्यानि प्रयच्छेत् ।वी प्रगतिप्रजनकान्त्यसनखादनेषु पठितोऽत्र खादने द्रष्टव्यः ॥छ॥ प्रदि"ष्टाभयस्थावरजंगमानि चे ब्रह्मसोमारण्यानि तपस्विभ्यो गोरु तपैराणि प्रयच्छेदिति ॥ [२.२.३] ..प्रदिष्टं दत्तमभयं छेदवधनिषेधात् स्थावराणां वृक्षादीनां जंगमानां पक्षिमृगादीनां येषु तानि, तपस्विभ्यो वानप्रस्थस्नातकादिभ्यो ब्रह्मसोमारण्यानि ब्रह्मारण्यं यत्रारण्यकादिवेदोपनिषदधीयते । सोमारण्यं यज्ञभूमिस्तानि । गोरुतपराणि क्रोशपराणि । क्रोशः परं प्रमाणमिति । अधिकं प्रमाणं नेष्यते चौराद्याश्रयदोषात् । धर्मापिधानमुक्त्वा कामापिधानमाह ।* तावन्मात्रमेकद्वारं खातगुप्तं स्वादुफललतागुल्मगुच्छमकंटकिद्रुममुत्तानतोयाशयं दान्तमृगचतुष्पादं भग्ननखदंष्ट्रव्यालं मॉर्गयुकहस्तिहस्तिनीकलभं मृगवनं विहारार्थ राज्ञः कारयेत् ॥ [२.२.४] [तावन्मा]"नं गोरुतपरमेव च । एकद्वारं रक्षासौकर्यार्थम् । खातगुप्तं द्वारखातयोरुपादानात् प्राकारोपपन्नम्। स्वादुफला गुल्माः करमर्दकादयः। गुच्छा बदरामलका- 20 दयस्थाः शाखिनो यस्मिन् । अकंटकिनो द्रुमा यस्मिन् । उत्ताना अगाधेतरास्तोयाशया यस्मिन् ।दांता विनयं ग्राहिता मृगा एणादयश्चतुष्पदा महिषगवयादयो......"योगार्थम् । भग्ना नखा दंष्ट्राश्च वालत्व एव येषां व्यालानां व्याघ्रादीनां ते यत्र । मार्गयुकमिति । मृगयुर्व्याधस्तस्य कर्म मार्गयुकं हस्तिशिक्षोक्तं येषां हस्तिहस्तिनीकल'[7]भानां यस्मिन् । ते हि शिक्षावशात् मृगं विधृत्य हत्वा वा राज्ञोऽर्पयंतीति मृगयावनं विहारार्थ 25 राज्ञः कारयेत् ॥ छ॥ सर्वातिथिमृगं प्रत्यंते चान्यत् मृगवनं भूमिवशेन वा[निवेश]"येत्॥ [२.२.५] SJG भूमिच्छिद्र विधानम् । २ SJG read ब्राह्मणेभ्यो after च। ३ SJG तपोवनानि च after ब्रह्म। 1 S,Jv). गोत्र (त); Svi., Jvl. गोरूत'; J गोत्रक । ५ SJG लता dropped । ६ SJG पई। ७SJ व्यालमा । ८ SJG मार्गा। ९६° कलभमृग। कौट० 2 Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118