Book Title: Arthashastra aparnama Rajsiddhanta Author(s): Kautilya Acharya, Publisher: Singhi Jain Shastra Shiksha Pith MumbaiPage 36
________________ कौटलीय-राजसिद्धान्तटीका खातस्यांक इति वर्तते । वृत्तं दीर्घवृत्तं वा । चतुरस्र दीर्घचतुरस्रं वा । दीर्घशब्दो मध्यस्थ [10B] उभयत्र योज्यः । त्रिकोणार्द्धचंद्रादीनामप्रशस्तानां निवृत्त्यर्थं वा । वास्तुवशेन वा भूमिवशेन दीर्घत्वमपि भवतु । प्रदक्षिणोदकं प्रशस्तत्वात् । पण्यपुटभेदनं ततोऽन्यत्र न "पण्यपुटा भिद्यत इति कृतनियमं पण्यानां संग्रहार्थम् । शुल्कस्य चाविनाशार्थम् । अंसपथः स्थलपथः पुरुषबलीव>ष्ट्राद्यसैः स्कंधैरुह्यमानपण्यत्वात् । वारिपथश्च । ताभ्यामुपेतं पण्यशुल्कसंग्रहार्थमेव ॥ छ । - तस्य परिखास्तिस्रो दंडांतरा द्विदंडांतरी वा कारयेत् ॥ [२.३.७] तस्य स्थानीयस्य परि समंतात् खन्यन्त इति परिषा(खा)स्तिस्र इति न्यूनाधिकत्वे दोषदर्शनात् । दंडांतरा द्विचत्वारिंशदङ्गलहस्तेन चतुर्हस्तो दंडस्तत्प्रमाणतः परस्परांतर(रा.)लाः । अतो न्यूनान्तरा विशीर्यते । अधिकांतराः परेषामाश्रया भवंति ॥ छ ॥ 10 चतुर्दश द्वादश दशेति दंडान् विस्तीर्णा विस्तरादवगाढाः पादोनमर्द्ध भूमिवशेन वा त्रिभागमूला मूल(ले) चतुरस्रा वा पाषाणोपहिताः पाषाणेष्टकाबद्धपार्था वा तोयांतिकीरागंतुतोयपूर्णा वा सपरिवाहाः पद्मग्राहवतीश्चेति ॥ [२.३.८] अभ्यंतरे चतुर्दशदंडान् विस्तीर्णा,मध्यपरिखा द्वादश,बहिःपरिषा(खा) दशदंडान् । विस्तीर्णा कार्या । न बाह्यतोयगणनाक्रमो गृह्यते । चतुर्दश दंडान् विस्तीर्णायां बाह्यपरिखायां गृहीतायामितरयोरध्यवसायो ग्रहणे भवतीति भावः । विस्तरादवगाढाः पादोनमर्द्ध चेति । चतुर्दशदंडविस्तीर्णायाः पादोनो विस्ता......... दश दंडाः। अर्द्ध वा सप्त दंडाः । द्वादशदंडविस्तारायाः पादोनत्वं नव दंडाः । अर्द्ध वा षट् दंडाः । दशदंडविस्तारायाः सार्द्धसप्तदंडाः, पंचदंडा वा गांभीर्यमित्यर्थः । त्रिभाग) इति विस्तारादेव त्रिभागो १० मुले यासामूर्ध्व विस्तारादेव तृतीयभागो मूले विस्तारो भवतीत्यर्थः । तद्यथा चतुर्दशदंडायाश्चत्वारो दंडा हस्तद्वयमष्टाविंशत्यंगुला......याश्चत्व( त्वा )रो दंडाः । दशदंडाया दंडत्रयमेको हस्तश्चतुर्दशांगुलानीति । मूल......10 [11].........पाषाणैरुपहिता वा दंडप्रमाणेष्वंतरालेष्वेव बद्धा दाार्थं तृणाद्यभावार्थ......... मंतिके समीपे सिरागतं यासां आगंतुकतोयपूर्णा वा उद्भिजतोयाभावे सति परैरलक्ष्यमार्गा.........लक्ष्यमूलतां कर्तुं 25 सपरिवाहा अधिकजलप......"रिवाहनार्थं सह परिवाहेन वर्तत इति । अन्यथान्योऽन्यसंप्लवो वप्रोपघातश्च स्यात् । पद्मग्राहवत्वे च दुःखावतारिणीं कारयेदिति संबंधः । वप्रविधानायाह ।* चतुर्दण्डा"वकृष्टं परिखायाः षट्दंडोच्छ्रितमवरुद्धं "द्विगुणविष्कभं खाताद् वप्रं कारयेदिति ॥ [२.३.९] १ SJG द्विदंडांतरा वा dropped. २ SJG °गाधा । ३ SJG भूमिवशेन dropped. ४ SJG तत् before द्वि। Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118