Book Title: Arthashastra aparnama Rajsiddhanta Author(s): Kautilya Acharya, Publisher: Singhi Jain Shastra Shiksha Pith MumbaiPage 51
________________ सटिप्पनकं कौटलीयमर्थशास्त्रम् सि ( शिक्षा' कल्पो व्याकरणं निरुक्तं छन्दोविचितिज्र्ज्योतिषं चांगानि । एष त्रयीधर्मश्चतुर्णां वर्णानामाश्रमाणां च स्वधर्मस्थापनादौपकारिकः' । I स्वधर्मो ब्राह्मणस्याध्ययन मध्यापनं यजनं याजनं दा[ ६ ]नं प्रतिग्रहश्चेति । क्षत्रियस्याध्ययनं यजनं दानं शस्त्राजीवो भूतरक्षणं चेति । वैश्य· स्याध्ययनं यजनं दानं कृषिपाशुपाल्ये वैणिज्या च । शूद्रस्य द्विजातिशुश्रूषा वार्ता कारुकुशीलवकर्म च । गृहस्थस्य स्वधैर्माजीवस्तुल्यैरेसमानगोत्रर्षिभिर्वैवाद्यं ऋतुगामित्वं "देवपित्रतिथिपूजाभृत्येषु त्यागः शेषभोजनं च । ब्रह्मचारिणः स्वाध्यायोऽग्निकार्याभिषेको भैक्षनतित्वमाचार्ये प्राणां" तिकी वृत्तिः तदभावे गुरुसुते स ६ द्वि. ह्मचारिणि वा । वानप्रस्थस्य ब्रह्मचर्यं भूमौ शय्या जटाजिनधारणमग्निहोत्राभिषेको देवतापित्रतिथिपूजा वन्यश्चाहारः । परिव्राजकस्यै 'जितेंद्रियत्वमनारम्भो निष्किंचनत्वं संगत्यागो भैक्ष १ अत्र 'शिक्षा' शब्दोपरि विस्तृता टिप्पनी लिखिता ज्ञायते । परन्तु पत्रस्य कियत्पार्श्व भागस्य त्रुटितत्वात् केवलं निम्नगताः शब्दा एव पठितुं शक्यन्ते - "सामादीनां प्रयोजनं । अ... ..कादिकं । इतिहास ...नु... धनुर्वेद आयुर्वेदनाढ्य वेद... ।” २ इत्युपकारदर्शनम् | ३ कः कस्य स्वधर्म इति तस्प्रदर्शयन्नाह । स्वधर्म इत्यादि । धर्मशब्दोऽत्रानुष्ठाने | ४ योगविभागश्च पृथक् प्रयोजनप्रतिपादनार्थम् । ५ क्षत्रियस्यापि स्वानुष्ठानमाह । ६ अनुष्ठानमिति शेषः । ७ त्रयो वर्णा द्विजातय इति । ८ अत्र प्रायः द्वित्रिपंक्तिव्यापका विस्तृता टिप्पनी लिखिताऽनुमीयते परंतु पत्रस्यो - पार्श्वस्थ कियदंशस्य त्रुटितत्वात् केवलं एतद्वाक्यांश एवास्माभिः पठितुं शक्यते " आश्रमाणां स्वधर्ममाह...... ।” ९ श्रुतवित्तादिना । १० एकर्षिगोत्राणां च विवाहनिषेधात् । ११ देवशब्दोऽग्निगुरूणामुपलक्षणार्थ: पंचयज्ञनिर्वर्तनमेवमभिहितं भवति । १२ नैष्ठिकमुद्दिश्योच्यते । नोपकुर्वाणकम् । १३ परिव्रजतीति परिव्राजकः । ग्रामादिष्वे करात्रं नगरे पंचरात्रमित्यादिक्रमेण । 1 sJG °तिषमिति । 2 SJG 'इति' नास्ति । 3J वाणि° । 4 sJG स्वकर्मा' । 5 eJa 'गोत्र' नास्ति 1 6 SJC 'पूजा' नास्ति । 7 SIG तत्व । 8 sJG पुत्रे | 9sJG संयतेन्द्रि° । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118