Book Title: Arthashastra aparnama Rajsiddhanta
Author(s): Kautilya Acharya,
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
5
१८
सटिप्पन कौटलीयमर्थशास्त्रम्
[ संस्थोत्पत्तिः । ]
उपधाभिः शुद्धामात्यवर्गो गूढपुरुषानुत्पादयेत् । कापटिकोदास्थितगृहपतिकवैदेहकतापसव्यञ्जनान् संत्रितीक्ष्णरसदभि
क्षुकीश्च ।
पैरमर्मज्ञः प्रगल्भः छात्रः कापटिकैस्तमर्थमानाभ्यां प्रोत्साह्य मंत्री ब्रूयात् । राजानं मां च प्रमाणं कृत्वा यस्य यदकुशलं पश्यसि तत्तदानीमेव प्रत्यादिशेति ।
प्रव्रज्यायः प्रत्यवसितः प्रज्ञाशौचयुक्त उदास्थितः । स वार्ता कर्मप्रदिटायां भूमौ प्रभूतहिरण्यान्तेवासी कर्म" का १५ द्वि. ]रयेत् । कर्मफैलाच्च सर्व1. प्रत्रजितानां ग्रासाच्छादनावसथान् प्रतिविदध्यात् । वृत्तिकामांश्चोपजपेत् । एतेनैव वेषेण राजार्थश्चरितव्यो भक्तवेतनकाले चोपस्थातव्यमिति । सर्वप्रव्रजिताश्च स्वं स्वं वर्गमेर्वमुपजपेयुः ।
कर्षको वृत्तिक्षीणः प्रज्ञाशौचयुक्तो गृहपतिकव्यञ्जनः । स कृषिकर्मप्रदिष्टायां भूमाविति समानं पूर्वेण " ।
१८
१ तेषां लक्षणमभिधातुमाह ।
२ परेषां आत्मनोऽन्येषां मर्भाणीव नर्माणि यदुद्घटना तन्मर्मणि विद्ध इव व्यथते तानि जानातीति ।
३
*
४ छात्र इव कपलिकामात्रपरिच्छदः ।
५ कपटेन चरति कापटिकः ।
६ प्रज्ञाशौचयुक्त इत्यपि दृष्टव्यम् । काकाक्षिगोलकन्याय
...... I
७ उदित्युत्कर्षवाचित्वान्मोक्ष एव । तस्मादास्थितः प्रतिनिवृत्तः । ८ वृत्तिकामत्वात् ।
९ तत्कर्मानुरूप राजार्पितहिरण्यः प्रभूतशिष्यश्च ।
१० कृषिपाशुपात्यवणिज्यालक्षणम् ।
११ मूलराशेरधिकात् ।
१२ शाक्या जीवपाशुपतादीनाम् ।
१३ प्रत्येकम् ।
१४ प्रव्रज्या प्रत्यवसितत्वाद्ये वृत्तिकामास्तानुपलक्ष्य उपजपेत् ।
१५ उपजाप प्रकारमाह ।
१६ उदास्थितवत् ।
१७ देवारक्षीणबीजबलीवर्दादिः ।
१८ कर्मफलाच्च सर्वेत्यादि द्रष्टव्यम् ।
1 sJG उत्साद्य । 2 SJO प्रव्रज्याप्रत्य' । 3 svl प्रवृज्य प्रत्यवप्रतः ; avl प्रत्यपसुतः । 4 s दोषेण; svl वेषेण । 5 SJG 'एव' नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118