________________
सटिप्पनकं कौटलीयमर्थशास्त्रम्
सि ( शिक्षा' कल्पो व्याकरणं निरुक्तं छन्दोविचितिज्र्ज्योतिषं चांगानि । एष त्रयीधर्मश्चतुर्णां वर्णानामाश्रमाणां च स्वधर्मस्थापनादौपकारिकः' ।
I
स्वधर्मो ब्राह्मणस्याध्ययन मध्यापनं यजनं याजनं दा[ ६ ]नं प्रतिग्रहश्चेति । क्षत्रियस्याध्ययनं यजनं दानं शस्त्राजीवो भूतरक्षणं चेति । वैश्य· स्याध्ययनं यजनं दानं कृषिपाशुपाल्ये वैणिज्या च । शूद्रस्य द्विजातिशुश्रूषा वार्ता कारुकुशीलवकर्म च ।
गृहस्थस्य स्वधैर्माजीवस्तुल्यैरेसमानगोत्रर्षिभिर्वैवाद्यं ऋतुगामित्वं "देवपित्रतिथिपूजाभृत्येषु त्यागः शेषभोजनं च ।
ब्रह्मचारिणः स्वाध्यायोऽग्निकार्याभिषेको भैक्षनतित्वमाचार्ये प्राणां" तिकी वृत्तिः तदभावे गुरुसुते स ६ द्वि. ह्मचारिणि वा ।
वानप्रस्थस्य ब्रह्मचर्यं भूमौ शय्या जटाजिनधारणमग्निहोत्राभिषेको देवतापित्रतिथिपूजा वन्यश्चाहारः ।
परिव्राजकस्यै 'जितेंद्रियत्वमनारम्भो निष्किंचनत्वं संगत्यागो भैक्ष
१ अत्र 'शिक्षा' शब्दोपरि विस्तृता टिप्पनी लिखिता ज्ञायते । परन्तु पत्रस्य कियत्पार्श्व भागस्य त्रुटितत्वात् केवलं निम्नगताः शब्दा एव पठितुं शक्यन्ते - "सामादीनां प्रयोजनं । अ... ..कादिकं । इतिहास ...नु... धनुर्वेद आयुर्वेदनाढ्य वेद... ।”
२ इत्युपकारदर्शनम् |
३ कः कस्य स्वधर्म इति तस्प्रदर्शयन्नाह । स्वधर्म इत्यादि । धर्मशब्दोऽत्रानुष्ठाने |
४ योगविभागश्च पृथक् प्रयोजनप्रतिपादनार्थम् ।
५ क्षत्रियस्यापि स्वानुष्ठानमाह ।
६ अनुष्ठानमिति शेषः ।
७ त्रयो वर्णा द्विजातय इति ।
८ अत्र प्रायः द्वित्रिपंक्तिव्यापका विस्तृता टिप्पनी लिखिताऽनुमीयते परंतु पत्रस्यो - पार्श्वस्थ कियदंशस्य त्रुटितत्वात् केवलं एतद्वाक्यांश एवास्माभिः पठितुं शक्यते " आश्रमाणां स्वधर्ममाह...... ।”
९ श्रुतवित्तादिना ।
१० एकर्षिगोत्राणां च विवाहनिषेधात् ।
११ देवशब्दोऽग्निगुरूणामुपलक्षणार्थ: पंचयज्ञनिर्वर्तनमेवमभिहितं भवति ।
१२ नैष्ठिकमुद्दिश्योच्यते । नोपकुर्वाणकम् ।
१३ परिव्रजतीति परिव्राजकः । ग्रामादिष्वे करात्रं नगरे पंचरात्रमित्यादिक्रमेण ।
1 sJG °तिषमिति । 2 SJG 'इति' नास्ति । 3J वाणि° । 4 sJG स्वकर्मा' । 5 eJa 'गोत्र' नास्ति 1 6 SJC 'पूजा' नास्ति । 7 SIG तत्व । 8 sJG पुत्रे | 9sJG संयतेन्द्रि° ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org