________________
सटिप्पनकं कौटलीयमर्थशास्त्रम् प्रतिबद्धा इति ॥ चतन एवं विद्या इति कौटल्यः । ताभिर्धर्मार्थों यद्विात्तद्विद्यानां विद्यात्वम् ।
साङ्ख्यं योगो लोकायतं च आन्वीक्षिकी। धर्माधर्मों त्रय्याम् । अर्थानौँ वार्तायाम् । नयापनयौ दण्डनीत्याम् । बलाबले चैतासां हेतुभिरेंन्वीक्षमाणा लोकस्योपकरोति । व्यसनेभ्युदये च बुद्धिमवस्थापयति । प्रज्ञावाक्यक्रियावैशारद्यं च करोति ।
प्रदीपः सर्वविद्यानामुपायः सर्वकर्म[५ द्वि.]णाम् ।
आश्रयः सर्वधर्माणां शश्वदान्वीक्षिकी मता ॥ इति विनयाधिकारिके प्रथमेऽधिकरणे द्वितीयोऽध्यायः॥ इति विद्यासमुद्देशे आन्वीक्षिकीस्थापना ॥ छ ।
[त्रयीस्थापना । सामऋक् यजुर्वेदास्त्रयस्त्रयी । अथर्ववेदेतिहासवेदौ" च वेदाः। १ एव शब्दोऽवधारणे। यस्मादभिधानस्वरूपोपकारकफला हि सर्वाभिन्नास्तसाचतस्र एव । ३ अभिभानतो भेदं दर्शयन्नाह । ताभिरिति ।
४ विद्यादिति = विचारयेत् । जानीयात् । लभेत । सत्तापादनेन विद्यमानो कुर्यादित्यासां विद्यात्वम् । अनेन भिन्नाभिधानता । विद निवारणे विद ज्ञाने विद लाभे विद सत्तायामिति धातुचतुष्टयोपादनाभिधानत्वात्।
५ स्वरूपभेदं दर्शयन्नाह सांख्यमिति । पंचविंशतितत्त्वानां संख्यानं संख्या । तामधिकृत्य कृतं सांस्य
योगो मोक्षेण सह संयोगकृत् । स च षडंगः । प्रस्याहारस्तथा ध्यानं प्राणायामोथ धारणा। तर्कश्चैव समाधिश्च षडंगो योग उच्यते ॥
सच न्यायवैशिषिकशास्रोक्तः । ७ लोकायतं वृहस्पतिप्रणीतं नास्तिकशास्त्रम् । तच पूर्वपदाविभागेनावस्थितम् । ८ संवरणमात्रमेव फलं नान्यदिति । तथा च वक्ष्यति । धर्मरुचिरुपांशुदंडप्रयुंजेतेति... ९ युक्तिभिः। १० उपकारांतरं दर्शयन्नाह व्यसने इति । ११ अभ्यायप्रांते श्लोकमाह । १२ बार्हस्पत्यैराक्षिप्तायास्त्रय्याः स्थापनामाह । स्वरूपतस्तावत् । सामेत्यादि ।
१३ दृष्टादृष्टमर्थ वेदयतीति सहस्रशाखातया सति वैपुल्यात्सामवेदस्य प्रथममुपन्यासः । तदनंतरं पाठसौंदर्याहग्वेदस्य ।
१४ प्रत्येकं वेदग्रहणमप्रसिद्धस्य वेदत्वस्य ख्यापनार्थम् । ।
1s बन्धा(द्धा); svl °बद्धा। 2 SIG चेत्यान्वीक्षिकी। 3s नयानयो; svl °नयापन'; Jvl नयापनयौ। 4 svl क्ष्य। 5G °माणान्वीक्षिकीलोक। 6 G पुस्तके सर्वत्र पुष्पिकायां आदी 'इति कौटिलीयार्थशास्त्रे' एते शब्दाः मुद्रिता उपलभ्यन्ते। 7 sI 'प्रथमेऽधिकरणे विद्यासमुद्देशे अन्वीक्षकीस्थापना द्वितीयोऽध्यायः।' 8 अन्वी। 9 स्थापना नाम । 10 SIG सामर्दी ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org