________________
$
सटिप्पनकं कौटलीयमर्थशास्त्रम्
१५ ॥
तंत्रयुक्तयः ॥' तंत्रयुक्तमिति' पञ्चदशमधिकरणम् ॥ इति शास्त्रसमुद्देशः ॥ [४] द्वि.] पञ्चदशाधिकरणानि ॥ सासी (शी ) तिप्रंकरणशतम् ॥ सपञ्चाशदध्यायर्शतम् ॥ षट् श्लोकसहस्राणीति ॥ सुखग्रहणविज्ञेयं तत्त्वार्थपदनिश्चितम् । कौटल्येन कृतं शास्त्रं विमुक्तग्रंथविस्तरम् ॥
इति 'विनयाधिकारिके प्रथमेऽधिकरणे' प्रथमोऽध्यायः ॥ छ ॥ प्रकरणाधिकरणसमुद्देशः ॥
*
[ आन्वीक्षिकीस्थापना । ]
राजवृत्तिः । आन्वीक्षिकी' त्रयी * वार्ता दण्डनीतिश्चेति विद्याः । " त्रयी वार्ता दण्डनीतिश्चेति मानवाः । त्रयीविशेषो ह्यान्वीक्षिकी[ति ।
वा]र्ता दण्डनीतिश्चेति बार्हस्पत्याः । संवरणमात्रं हि [ ५१.] त्रयी लोकयात्रीविद इति । दण्डनीतिरेका विद्येत्यौशनसाः । तस्यां [हि सर्व ] "विद्यारम्भाः
[ टिप्पनकानि ]
१ राजवृत्तिरिति = अयमधिकारः । आत्मसंपगुणैर भिगामिकगुणैश्च जनरंजनाद्राजा । तस्य वृत्तिरनुष्ठानं अधिकृतं ... राजवृत्तिरिति प्रधान ...।
२ प्रत्यक्ष परोक्षाभ्यामीक्षितस्यानु पश्चादीक्षणमन्वीक्षा । तच्चानुमानं तत्प्रयोजनं यस्याः सा आन्वीक्षिकी न्यायविद्या ।
......
३* अवस्था टिप्पनी विनष्टा । एवं अग्रेऽपि यत्र यत्र टिप्पन्य विनष्टा ज्ञातास्तत्र तत्र एतादृशं चिह्नमतिं ज्ञेयम् ।
४ वार्तेति वृत्तिरेव वार्ता । जगद्वृत्तिहेतुत्वात् कृष्यादिका ।
५ दंडनीतिरिति दंडो वधादिकस्तस्य नीतिः प्रणयनं दंडनीतिः ।
६ विद्यते चतुर्विधः पुरुषार्थो काभिस्ता विद्या राजविद्याः । राजवृत्तिः राजविद्या पाठः । ७ मनोः शिष्याः ।
..
८ स्वमते हेतुवचनमिदम् । आन्वीक्षिकी तर्कः स च त्रय्यनुगतो न्यायविद्या... । ९ कोकव्यवहारविदो राज्ञः ।
१० शुक्रशिष्याः ।
११ सर्वा विद्याः = सर्वे आरंभा मात्स्यन्यायाभावे प्रारंभाणां प्रवर्तमात् ।
1 sJG तन्त्रयु । 2 SJG इति तन्त्रयुक्तिः पञ्च । 3svl °तिः । 4 sJG सपञ्चाशदध्यायशतं ॥ साशीतिप्रकरणशतं ॥ 5 SIG मुद्रित पुस्तकेषु 'कौटिल्येन' इति पाठः पठ्यते । 6 SJG इति कौटि - लीयेऽर्थशास्त्रे । 7 SIG प्रथमाधिकरणे । 89 राजवृत्तिः प्रथमो ; a प्रथमोऽध्यायः राजवृत्तिः । 9 SJ सर्वत्र 'आन्वीक्षकी' इति पठ्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org