Book Title: Arthashastra aparnama Rajsiddhanta Author(s): Kautilya Acharya, Publisher: Singhi Jain Shastra Shiksha Pith MumbaiPage 35
________________ नीतिनिर्णीतिनानी प्रत्येकं द्वैविध्यादष्टौ दुर्गाणि तानि दर्शयन्नाह ।* अंतीपं स्थलं वा निम्नावरुद्धमौदकम् । प्रास्तरं गुहा वा पार्वतम् । निरुदकस्तंबमिरिणं वा धान्वनम् । खंजनोदकं स्तंबगहनं वा वनदु मिति ॥ [२.३.३] द्विधागता आपो यस्मिंस्तद्वीपम् । द्वीपस्यांतर्नदीस्रोतसामंतरे भवमन्तीपमित्येकम् । स्थलं वा निम्नेन जलेनावरुद्धं दैववशात् । निम्नशब्देनात्र तात्स्थ्याजलमभिधीयते । 'निम्नयोधिन' इति वचनात् । एवं द्विविधमुदकस्येदमौदकम् । प्रास्तरं गुहा वा पार्वतमिति । प्रस्तरे एकखंडे भवं प्रास्तरम् । गुहा वा गूहनात् गुहा । यत्र पर्वतश्चतुर्दिशं वेष्टयित्वा द्वारमेकं मुक्त्वा गृहनात् सा गुहा । एवं द्विविधं पार्वतम् । निरुदकं निस्तंबं निस्तृणं " निर्विटपं च एकम् । इरिणमूषरं यत्नोत्पादिततृणोदकमेवं द्विविधं धान्वनम् । 'निरुदकोदेशो धन्वे' त्याम्नायात् । खंजनोदकं 'खजिगतिवैकल्य' इति पाठात् , सपंकजलम् । स्तंबगहनं केवलवृक्षस्तंबगहनं वा एवं वनदुर्गमपि द्विविधम् ॥ छ । तेषां नदीपर्व®[ 10 ] तदुर्ग जनपदारक्षस्थानम् । धान्वनं वनदुर्गमटवीस्थानमापद्य {पसारो वेति ॥ [२.३.४] . तेषां दुर्गाणां मध्ये नदीदुर्ग पर्वतदुर्ग च जनपदारक्षा अंतपालाः, तेषां स्थान परप्रवेशनिषेधात् ।" धान्वनं दुर्ग वनदुर्ग च अटवीस्थानमाटविकानां स्थानं जनपदरक्षार्थमेव । आपद्यपसारो वा आपदि पराभियोगलक्षणायां अपसारो वा कलत्रमपसार्य स्थाप्यत इति । मध्ये दुर्गविधानमाह ।* जनपदमध्ये समुदायस्थानं स्थानीयं निवेशयेदिति ॥ [२.३.५] सर्वतोऽनन्तरारीणां व्यवहितत्वात् समुदयमुदयहेतुत्वात् कोशस्तस्य स्थानम् , स्था[नीयमिति । राज्ञः स्थानाय हितं निवेशयेदिति। दुर्ग विधायेति भावः । दैवकृतं चेद्भवति संस्कुर्यान्न चेद्वक्ष्यमाणोपदेशेन कुर्यात् ॥ छ । _ वास्तुकप्रशस्ते देशे नदीसंगमे हृदस्याविशोष्यस्यांके* सरसस्तडाँगस्य वा वृत्तं दीर्घ चतुरस्रं वा वास्तुवशेन वा प्रदक्षिणोदकं पण्यपुटभेदनमंसपथवारिपाभ्यामुपेतम् ॥ [२.३.६] वास्तुकप्रशस्ते देशे वास्तुविद्याविद्भिः श्लाघिते देशे नदीसंगमे दुर्गत्वाजलसौकर्यार्थ च । तदलाभे” हृदस्याविशोष्यस्यांके सरसो देवखातस्य तडागस्य वा मनुष्य J°; Jvl. प्रा। २ SJ ख; Svl. खं। ३ Svl., Jvl. स्थम्ब । ४S, Jvl, आपाद्यप्रसारो; Svl. आपद्य। ५ हृदस्य वा अविशोषस्याङ्के; Svl. वाटविशोषं; J वा विशोष । ६ SJG तटा। SJG °स्तुकवशेन । ८SJ °भेदनमंसवारिपथा etc. 20 Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118