Book Title: Arthashastra aparnama Rajsiddhanta
Author(s): Kautilya Acharya, 
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

Previous | Next

Page 33
________________ 5 10 15 20 25 30 नीतिनिर्णीतिमानी अनीकस्थप्रमाणैः प्रशस्तव्यञ्जनाचारान् हस्तिनो गृह्णीयुः ।। [२.२.१२] अनीकस्था हस्तिशिक्षाविदस्तेषां येऽतिकुशलत्वात् .... . *माणभूतास्तैः प्रकर्षेण शस्तानि व्यज्यते शुभत्वादिर्यैस्तानि व्यंजनानि लक्षणानि, आचाराश्चरितानि प्रशस्तानियेषां तान् हस्तिनो [ गृह्णी ] युः । ग्रहणोपायाश्च पञ्चतन्त्रान्तरोक्तास्तद्यथा । वशाकल्पावपातौ च वारिकर्म्मानुगम्य यत् । आपाने च पतत्येतदनुसृत्य च बंधनम् ॥ इति ॥ कथमेतेषां महाप्रयत्नेन ग्रहणमित्याह । * १२ हस्तिप्रधानो विजयो राज्ञं इति । [ २.२.१३] विजये हस्तिन एव प्रधानं तदायत्तत्वात् विजयस्य । यस्मात्तदेव दर्शयतीति । * परानीक व्यूहदुर्गस्कन्धावारप्रमर्दना ह्यतिप्रमाणशरीराः प्राणहरकणो हस्तिन इति ॥ [२.२.१४] अनीकं सैन्यं व्यूहं दंडभोगादि । दुर्गं वप्रप्राकाराद्युपलक्षितम् । स्कंधावारः `शिविरसन्निवेशः। परेषामनीक" व्यूहस्कंधावारप्रमर्दनाः । यतस्तेऽन्यचतुष्पदेभ्योऽतिप्रमाणशरीरास्तथा प्राणहरकर्माणः 'स्पृशन्नपि गजो हंती'ति । तस्मात् संग्राह्या हस्तिन इति । वनायां श्रेष्ठतामा " ह । * wwwwwwwww कालिंगांगर (ग) जाः श्रेष्ठाः प्राच्याश्चेदिकरूपजाः । दशार्णाश्चापरांताश्च गजानां मध्यमा मताः ॥ सौराष्ट्रकाः पांचनदास्तेषां प्रत्यवराः स्मृताः ॥ इति ॥ [२.२.१५] उत्कलानां च देशस्य (20) [8B] दक्षिणस्यार्णवस्य च । सह्यस्य च कलिंगस्य मध्ये कालिंगकं वनम् ॥ तथा । वैदेशं नर्मदा चैव ब्रह्मवर्द्धनमित्यपि । मध्ये च पारियात्राणां वनं स्यादांगरेयकम् ॥ इति वनद्वयजाः श्रेष्ठाः तथा । Jain Education International लोहित्यस्य प्रयागस्य गंगा हिमवतोरपि । मध्ये प्राच्यं वनं तत्र संभवंति दिशां गजाः ॥ मेकला त्रिपुरी चैव दशार्णो देश इत्यपि । उन्मत्त गंगामित्येषां मध्ये चेदिकरूपकम् ॥ SJG राज्ञाम् । २ SJCG कर्माणो । ३ SJG कलिंगा । ५ SJG द्विपानां । ६ SJG सौराष्ट्रकाः । ७ SJ, Gvl. पांचजनाः । For Private & Personal Use Only ४ SJ श्रेति । www.jainelibrary.org

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118