Book Title: Arthashastra aparnama Rajsiddhanta
Author(s): Kautilya Acharya, 
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

Previous | Next

Page 41
________________ नीतिनिर्णीतिनानी हस्तमात्रमेव भवति । ततश्च प्रथमप्राकारे पंचदंडं, द्वितीये हस्तोत्तरं, तृतीये द्विहस्तोत्तरं, चतुर्थे त्रिहस्तोत्तरं, पंचमे......"डमेवं चतुर्विंशतिहस्तेऽष्टदंडकमिति । षड्भागमायामादधिकमष्टभागं वा खकीयखकीयप्रमाणात् षड्भागमायामादधिकमष्टभागं वा । पंचदंडे आयामे षड्भागो हस्तत्रयं चतुरंगुलानि । अष्टमभागः सार्द्धहस्तद्वयमित्येवं द्वादशखपि क्षेत्रेषु योज्यम् । तथैव द्वारतलस्योत्सेधं त्रयोदशविधमेव दर्शयन्नाह ।* पञ्चदशहस्तादेकोत्तरमा अष्टादशहस्तात् तेलोत्सेधः ॥ [२.३.२४] मेंढकप्राकारस्यायमुच्छ्यो द्रष्टव्यः । तन्मस्तक एव यस्मात्तलं तस्य तलोच्छ्रयः । साढ़े द्व......रुत्तर.........ह्यम् ॥ छ । स्तंभस्य परिक्षेपाः षडाया "मा द्विगुणो निखातश्चलिकायाश्चतुर्थो भागो वेति ॥ [२.३.२५] द्वादशहस्तोत्सेधे प्राकारे द्वादशहस्तोत्सेध.........द्वारग्रहतुलापिंडपल.......स्तारभूमिकाबंधादौ द्रष्टव्यम् । तलोच्छ्यवृद्ध्यैव स्तंभोच्छ्यवृद्धिाख्याता। स्तंभस्थौल्यमाह। स्तंभस्य परिक्षेपाः......[15A] द्वादशहस्तायामस्य द्विहस्तं स्थौल्यं भवतीत्यर्थः । स्तंभायामस्य षष्ठोंशो विष्कंभ इति भावः। द्विगुणो निखा......। न त्वेव काष्ठमयं कार". is येत् । अग्निरवहितो हि तस्मिन् वसतीति वचनसामर्थ्यात् । प्रतोल्यां सकलकाष्ठं ताम्रवेष्टितं द्रष्टव्यम्...... परिक्षेपचतुर्थभागप्रमाणं भवति ।” एवं द्वारनिवेशमभिधाय मेंढकप्राकारमस्तकनिविष्टस्यादितलविधानमाह* । आदितलस्य पंचभागाः शाला वापी सीमा [गृहं च । दशभागिकौ] द्वौ प्रतिमंचौ ॥ [२.३.२६] तद्यथा । एवं भागा स्तले कार्याः प्रत्यंशं पंचकोष्ठकाः । यथायोगं विभागोऽत्र शालासीमागृहादिषु॥ कोष्ठकस्य त्रिभिख्यंशैः कोष्ठको जायतेऽत्र तु। त्रिभिः षडशैः कोष्ठार्द्ध पादोऽपि द्वादशांशकैः ॥ ......कोष्ठत्रयं व्यंशैरुभयोः पार्श्वयोरपि । पंचकोष्ठा भवेद्वापी मध्यस्थं कोष्ठकत्रयम् ॥ द्वारबंधप्रदेशस्तलव्यपदेशं न लभते । जनावकाशप्रदेशाभावात् । आदितलस्य पंच .........” प्रमाणस्य पंचभाग आयामेन विंशत्यादिहस्तविष्कंभेन दंडादिप्रमाणोऽभ्यंतरभागावस्थितः । शाला प्रहरणावरणादिस्थानम् । शालाग्रतः स्थितं षडंगुलांतरं शुषिरं वापी 30 ......रत्वात् । यया प्रविशतः शत्रूनुपरिस्थिताः प्रहरति । अग्रस्थितः शालाप्रमाणो भागस्सीमागृहम् । बाह्याभ्यंतरभागयोः सीन्नि स्थितत्वात्। [15B] सीमागृह युद्धार्थम् । 3S माऽष्टादश। २G तु। ३ Svl. क्षेप। ४ SJ डायामो। ५SJG वा dropped. ६ G समत्तवारणौ after दशभागिको । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118