________________
5
10
15
20
25
30
नीतिनिर्णीतिमानी
अनीकस्थप्रमाणैः प्रशस्तव्यञ्जनाचारान् हस्तिनो गृह्णीयुः ।। [२.२.१२] अनीकस्था हस्तिशिक्षाविदस्तेषां येऽतिकुशलत्वात् .... . *माणभूतास्तैः प्रकर्षेण शस्तानि व्यज्यते शुभत्वादिर्यैस्तानि व्यंजनानि लक्षणानि, आचाराश्चरितानि प्रशस्तानियेषां तान् हस्तिनो [ गृह्णी ] युः । ग्रहणोपायाश्च पञ्चतन्त्रान्तरोक्तास्तद्यथा । वशाकल्पावपातौ च वारिकर्म्मानुगम्य यत् । आपाने च पतत्येतदनुसृत्य च बंधनम् ॥ इति ॥ कथमेतेषां महाप्रयत्नेन ग्रहणमित्याह । *
१२
हस्तिप्रधानो विजयो राज्ञं इति । [ २.२.१३]
विजये हस्तिन एव प्रधानं तदायत्तत्वात् विजयस्य । यस्मात्तदेव दर्शयतीति । * परानीक व्यूहदुर्गस्कन्धावारप्रमर्दना ह्यतिप्रमाणशरीराः प्राणहरकणो हस्तिन इति ॥ [२.२.१४]
अनीकं सैन्यं व्यूहं दंडभोगादि । दुर्गं वप्रप्राकाराद्युपलक्षितम् । स्कंधावारः `शिविरसन्निवेशः। परेषामनीक" व्यूहस्कंधावारप्रमर्दनाः । यतस्तेऽन्यचतुष्पदेभ्योऽतिप्रमाणशरीरास्तथा प्राणहरकर्माणः 'स्पृशन्नपि गजो हंती'ति । तस्मात् संग्राह्या हस्तिन इति ।
वनायां श्रेष्ठतामा " ह । *
wwwwwwwww
कालिंगांगर (ग) जाः श्रेष्ठाः प्राच्याश्चेदिकरूपजाः । दशार्णाश्चापरांताश्च गजानां मध्यमा मताः ॥ सौराष्ट्रकाः पांचनदास्तेषां प्रत्यवराः स्मृताः ॥ इति ॥ [२.२.१५] उत्कलानां च देशस्य (20) [8B] दक्षिणस्यार्णवस्य च । सह्यस्य च कलिंगस्य मध्ये कालिंगकं वनम् ॥
तथा ।
वैदेशं नर्मदा चैव ब्रह्मवर्द्धनमित्यपि । मध्ये च पारियात्राणां वनं स्यादांगरेयकम् ॥ इति वनद्वयजाः श्रेष्ठाः
तथा ।
Jain Education International
लोहित्यस्य प्रयागस्य गंगा हिमवतोरपि । मध्ये प्राच्यं वनं तत्र संभवंति दिशां गजाः ॥
मेकला त्रिपुरी चैव दशार्णो देश इत्यपि । उन्मत्त गंगामित्येषां मध्ये चेदिकरूपकम् ॥
SJG राज्ञाम् । २ SJCG कर्माणो । ३ SJG कलिंगा । ५ SJG द्विपानां । ६ SJG सौराष्ट्रकाः । ७ SJ, Gvl. पांचजनाः ।
For Private & Personal Use Only
४ SJ श्रेति ।
www.jainelibrary.org