SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ कौटलीय -राजसिद्धान्तटीका • हस्तिघातिनं हन्युर्दतयुगं स्वयंमृतस्याहरतः सपादचतुष्पणो लाभः ॥ [२.२.९] हस्तिघातिनं हन्यु गवनपालाः । दंतयुगं स्वयंमृतस्य हस्तिनो नागवनपालस्यान्यस्य वाऽऽहरतः सपादचतुष्पणो लाभः। पादस्याधिकत्वं तात्कालिकभोजनार्थमन्यथा पंचादिष्वपि संपूर्णेषु पणेषु दत्ते...... भोजनाय पणभंगमस्थिभंगमिव मन्यमाना नातिप्रहृष्यंतीति भावः ॥ महणार्थ हस्तिकुलाग्रज्ञानायाह ।* । नागवनपाला हस्तिपकपादपाशिकसैमिकंवनचरकपारि"कर्मिकसखा हस्तिमूत्रपुरीषच्छन्नात्मगंधा भल्लातकीशाखापत्रप्रच्छन्नाः पंचभिः स. प्तभिर्वा हस्तिबंधकीभिः सह चरंतः शय्यास्थानपद्यालेंडनंदीकूलघा- " • . तोद्देशेन हस्तिकुलपर्यग्रं विद्युरिति ॥ [२.२.१०] नागवनपालाः, हस्तिपक आरोहकः, पादपाशनियुक्तः, सैमिको वनमर्यादाभिज्ञः। वनचरकः शबरादिः, पारकर्मिकः शिक्षोक्तपरिकर्मकुशल'"स्तेषां सहाया भूत्वा, हस्तिमूत्रपुरीषच्छन्नगंधास्तद्रसभावितकंचुकिभिः । भल्लातकी आरुष्करवृक्षः तस्य पत्रोपलक्षितशाखाच्छन्नरूपाः । हस्तिनो हि भल्लातकी...... हरतीति । पंचभिः सप्त- 15 भिरिति विषमसंख्याग्रहणं हस्तिप्रलोभनार्थम् । उक्तं च । संयोगकामो नैराश्य युग्मासु प्रतिपद्यते। __अयुग्माचारयेत्तस्मात्पूरणा सं.........[ujoy हस्तिबंधक्यो गणिकाबंधक्य इव । हस्तिप्रलोभनात् । ताभिरिति तदारूढः सह- 21 चरंतः कुल.......[8A] .........निक्षेपचिह्नाकारतः, लिं(ले?)डं पुरीषाकारतः, कूलघातो दंतोत्खाताकारतः, तदुद्देशे........."रिग्रहार्थं पर्यग्रं समस्तप्रमाणं विद्युर्महणार्थम् ॥ छ । यूथचरमेकचरं नियूथं यूथपति हस्तिनं [व्यालं मत्तं पोतं बन्र्धमुक्त च निबन्धेन ] विद्युः ॥ [२.२.११] यूथे चरतीति यूथचर ......... एकचरमिति, खयमेव यूथान्निःसृतं नियूथं यूथान्निर्धारि(टि.)तं यूथपतिं हस्तिनं तेष्वपि व्यालं दुष्टं मत्तं हस्तिनमिति सर्वत्र योज्यम् । पोतं बालं बंधमुक्तं केनाप्य.........यं वा निबंधेन लेख्यपुस्तकारोपणेन विद्युः॥छ।। S मृग। २S सौमि । ३ SJG °च्छन्नगन्धा। ४ SJG शाखाप्रतिच्छन्नाः, Jvl. प्रतिच्छन्नान् । ५ SJG °लण्डकूलपा-[ Svl. कुलपो.] तोद्देशेन । ६ SG बद्ध, Svl., Gvl.-बन्धमु; Gvl. बद्धं मु°। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002502
Book TitleArthashastra aparnama Rajsiddhanta
Original Sutra AuthorKautilya Acharya
Author
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1959
Total Pages118
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy