________________
- नीतिनिर्णातिनानी सर्वेऽतिथिवत् पूज्यंते दत्ताभयाः पोष्यंते धर्मार्थं यत्र प्रत्यंते तस्मिन् निबेशयेत् । अन्यद् वा वनं रक्षया निवेशयेदिति संबंधः । चशब्दादन्यदपि मृगवनं निवे[शयेत् ] मृगयारण्ये निक्षेपार्थ भूमिवशेन वा अप्रत्यंतेऽपि यत्र मृगाः संतीति । अर्थापिधानमभिधातुमाह ।*
कुप्यप्रदिष्टानां च द्रव्याणां तरूणामेकैकशो वनानि' निवेशयेत् । द्रव्यवनकर्मातानटवीश्च द्रव्यवनापाश्रया इति ॥ [२.२.६]
कुप्याध्यायप्रदिष्टानां द्रव्याणामिति । तरूणां शाकतिनिशादीनां प्रत्येकश एकजातीयानां पृथक्पृथग वनानि नि वेशयेत् । द्रव्यवनकम(म्मा)तांश्च वृक्षच्छेदनत
क्षणादिस्थानानि निवेशयेत् । अटवीश्चाटविकांश्च द्रव्यवनापाश्रया रक्षणार्थं निवेशये10 दिति संबंधः । हस्तिवननिवेशमाह ।*
प्रत्यंते हस्तिवनमटव्यारक्षं निवेशयेदिति ॥ [२.२.७]
प्रत्यंते जनपदमध्ये पीडावहत्वात् । हस्तिवनं निवेशयेदिति संबंधः । अटव्यारक्षमाटविकारक्षम् ॥ छ ।
नागवनाध्यक्षः पार्वतं नादेयं सारसमानूपं च नागवनं विदितपर्यन्तप्रवेशनिष्कासं नागवनपालैः पालयेदिति ॥ [२.२.८]
चतुर्विधं वनं पालयेदिति संबंधः । पर्वते भवं पार्वतं तस्य लक्षणं क"टुतिक्तकषायाम्लवृक्षौषधिरसद्रवः । पार्वतस्तृणपाषाण विषमो देश उच्यते । नद्यां भवं नादेयम् । तथा च उक्तम् ।
नलवंजुलविष्यंदिवालुकास्थलसंयुतः।
सर्वसाधारणद्रव्यो नादे [7B]यो देश उच्यते ॥ सरसि भवं सारसम् । उक्तं च ।
उत्तृणः स्थलसंरोधी स्निग्धमूलवनौषधिः ।
विदाही जलविष्यंदी सारसः संप्रकीर्तितः॥ तथा।
सुस्वादुमधुरस्निग्ध-कषायौषधिवीरुधः।
बहुपंकोदकक्षारः सोऽनूपो देश उच्यते ॥ तत्र भवमानूपम् । एवं चतुर्विधमपि वनं नागवनपालैः कृत्वा नागवनाध्यक्षः पालयेत् [1] हस्तिनां वनं सर्वोप......वनिषेधात् । विदितपर्यन्तप्रवेशनिष्कासमिति 30 संबंधः ॥ छ ।
20
25
SJG तरूणां dropped. २ SJG वा वनं। 1SJ read this sutra with the following one. ३J रक्ष्य; Jvl. रक्षन् । ४SJG निष्कसन; Svl. निष्कास।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org