Book Title: Arthashastra aparnama Rajsiddhanta
Author(s): Kautilya Acharya, 
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

Previous | Next

Page 34
________________ कौटलीय-राजसिद्धान्तटीका तथा। • देशस्य च दशार्णानां ख्यातस्य च महागिरेः। विंध्याद्रेर्वेत्रवत्याश्च मध्ये दाशार्णकं वनम् ॥ तथा । अवंतीनां च देशस्य नर्मदायास्तथैव च । द्वारकार्बुदयोश्चैव मध्ये सौराष्ट्रकं वनम् ॥ कुरुक्षेत्रस्य देशस्य कालिकाकाननस्य च । सिंधोहिमवतश्चैव मध्ये पांचनदं वनम् ॥ कालिंगकांगरेयकवनभवाः श्रेष्ठाः । प्राच्यचेदिकरूपवनदाशार्णापरांतकभवा मध्यमाः । सौराष्ट्राः पांचनदभवा अवराः । अस्यापवादः ।* सर्वेषां कर्मणा वीर्य' जवस्तेजश्च वर्द्धत इति ॥ [२.२.१६] • • अवराणामपि कर्मणा स्थितभौमोत्तरा...यादिना......... बलं उत्साहलिंग जवो वेगस्तेजः शौर्यं च वर्द्धते ॥ इति मुग्धविलासा [9A] कयोग्यमविरचितनीति निर्णात्यभिधानायां कौट. . लीय-राजसिद्धान्तटीकायामध्यक्षप्रचारे द्वितीयोऽध्यायः ॥ छ ॥ छ॥ -----ococc[दुर्गविधाननामा तृतीयोऽध्यायः ।] दुर्गविधानमिति सूत्रम् ॥ [२.३.१] दुःखेन गम्यते परैरिति दुर्गस्त"स्य विधानं वप्रादिरचनयेति सूत्रार्थः । संबंधस्तु खाम्यमात्यजनपदानां लाभः पालनं चाभिहितम् , दुर्गप्रकृतेरभिधीयत इति महासंबंधः। अनं-१ तरसंबंधश्च जनपदनिवे.........न्तपालदुर्गाण्युद्दिष्टानि । स्थानीयं च यत्र निशांतमभिहितं तेषां विधानमिति । जनपदरक्षार्थ तावत् स्थानीयादिदुर्गविधानमाह ।* चतुर्दिशं जनपदांते सांपरायि के देवकृतं दुर्ग कारयेदिति ॥२.३.२] .. चतुर्दिक्षु जनपदांते सांपरायिकमिति । परेषां शत्रूणां आय आगमनं परायः, 25 सम्यक् सर्वसामग्र्या परायस्तस्मै प्रतिस्खलनाय प्रभवतीति सांपरायिकम् । अथवा सम्यक परेषामायः कोशसंपत् तद्विनाशाय प्रभवतीति सांपरायिकम् । स्वजनपदरक्षायै परजनपदविलोपाय प्रभवतीत्यर्थः । दैवकृतं खर...... नेव दुर्ग देवखाततडागवत्कारयेत् परिखादिभिः संस्कारयेदित्य [ 9 B ]र्थः । चतुर्दिशमित्युक्ते चत्वार्यतपालदुर्गाणीत्यर्थापन्नम्। दुर्गस्य मूलप्रकृतयश्चतस्रः । औदकं पार्वतं धान्वनं वनदुर्गमिति । . वीर्य । २ Svl., JvI. देव। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118