Book Title: Arthashastra aparnama Rajsiddhanta
Author(s): Kautilya Acharya, 
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

Previous | Next

Page 29
________________ नीतिनिर्णीतिनाम्नी अत्र हेतुः । निराश्रयत्वाद्रामाणां क्षेत्राभिरामंत्वाच्च पुरुषाणां कोशविष्टिद्रव्यधान्यरसवृद्धिर्भवतीति ॥ [२.१.३१] निराश्रयत्वाद्रामाणां शालारामाभावात् क्षेत्राभिगमत्वाच्च पुरुषाणां नटा5 धभावात् । कोशादिवृद्धिर्भवति । कोशोहि हिरण्यदानात् । विष्टिः सीतादिसाहाय्यदानात् । द्रव्यं वस्त्रादि । ध{}न्यानां रसानां तैलघृता"[5B]दीनां वृद्धिर्भवति । तद्वृद्ध्या राज्यवृद्धिः । उत्तरत्रापि परिहारमाह ।* परचक्राटवीग्रस्तं व्याधिदुर्भिक्षपीडितम् । देशं परिहरेद्राजा व्ययक्रीडाश्च वर्जयेदिति ॥ [२.१.३२] परचक्रं शत्रु[स]'न्यं । अटव्याटविकस्ताभ्यां ग्रस्तं कृतदाहविलोपं व्याधिदुर्मिक्षपीडितं देशं परिहरेत् दण्डकरादि न गृह्णीयादित्यर्थः । व्ययक्रीडाश्च कर्षकादीनां परस्परस्पर्द्धया......[व्य]"यक्रीडा निषेधयेत् । विघ्नं मा भूदिति । वातरक्षार्थमाह ।* दण्डविष्टिकराबाधै रक्षेदुपहतां कृषिम् । । स्तेनव्यालविषग्राहैाधिभिश्च पशुव्रजान् ॥ [२.१.३३] दण्डविष्टिकरै......"चितादभ्यधिकगृहीतैः समाहर्तादिभिर्ये आबाधास्तैरुपहतां पीडितां कृषि रक्षेदिति सम्बन्धः । स्तेनैश्चौरैालाघ्रादिभिर्विषैः स्थावरजङ्गमैग्राहैः शिशुमारादिभिर्व्याधिभिरीशानज्वरादिभिरुपहतान् पशुव्रजान् रक्षेत् ॥ छ । वल्लभैः कार्मिकैः स्तेनैरन्तपालैश्च पीडितम् । शोधयेत् पशुसङ्घश्च क्षीयमाणं वणिक्पथ[मिति ॥ [२.१.४३] वल्लभै राज्ञीकुमारादिभिः । काम्मिकैः शुल्काध्यक्षादिभिः । स्तेनैरन्तपा[6A] "लैश्च पीडितं रक्षेदिति वर्तते । पशुसबैश्च क्षीयमाणं वणिक्पथं शोधयेदिति । राजा स्वपशुदानैरनुगृह्णीयादिति भावार्थः । 25 .. अतिदेशमाह ।* एवं द्रव्य[द्विपवनं सेतुबन्ध]"मथाकरान् । रक्षेत् पूर्वकृतान् राजा नवांश्चाभिप्रवर्तयेदिति ॥ [२.१.४४] एवमनंतरोक्तविधानेन वल्लभादिभिः पीड्यमानं द्रव्यवनं {द्विपवनं} हस्तिवनं सेतुबन्धमथाकरान...... पूर्वकृतान् राजा नवांश्चाभिप्रवर्तयेत् ॥ छ । 30. इति मुग्धविलासाङ्कयोग्यमविरचितनीतिनिर्णीत्यभिधानायां कौटलीयराजसिद्धान्तटीकायामध्यक्षप्रचारे प्रथ[मो अध्यायः॥ छ ॥ छ । SJG °रतत्वाच्च । २ SJG वारवत्। ३ दन्यं द्विप’, J ज्यद्विप । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118