Book Title: Arthashastra aparnama Rajsiddhanta Author(s): Kautilya Acharya, Publisher: Singhi Jain Shastra Shiksha Pith MumbaiPage 28
________________ कौटलीयराजसिद्धान्तटीका नास्ति मातृसमो देवो नास्ति मातृसमो गुरुः। पतिता वाऽभिशस्ता वा न माता त्यागमहति ॥ प्रजाक्षयनिषेधायाह ।* .. पुत्रदारमप्रतिविधाय प्रव्रजतः पूर्वःसाहसदंडः स्त्रियं च प्रवाजयतः॥ [२.१.२७] पुत्रदारमप्रतिविधाय ग्रासाच्छादनादिभिः प्रव्रजतः तपसे गच्छतः पूर्वः साहसदंडः।सार्द्धसाग्रपणशतद्वयप्रमाणो दंडः । अन्यथा अविरक्ता अपि कुटुंबभरणक्केशभयात् प्रव्रजंति । उक्तं च । मत्यै गृहाश्रमो घोरः पार्थिवैरपि दुस्तरः। क्लिश्यंत्यत्रासमर्था ये क्लीबाः पाषंडमाश्रिता इति ॥ स्त्रियं च (चा ?)लुप्तव्यायामामनिवृत्तरजस्कामिति द्रष्टव्यं । प्रव्राजयतः प्रजोत्पत्तिनिरोधदोषात्पूर्वः साहसदंडः ॥ छ॥ ... लुप्तव्यायामः प्रव्रजेदापृच्छय धर्मस्थानन्यथा नियम्येत ॥ [२.१.२८] लुप्तव्यायामः प्रजननशक्त्यभावात् प्रव्रजेद् वार्द्धके(क्ये) मुनिवृत्तिरिष्यते । तत्राप्यापृच्छय धर्मस्थान् वक्ष्यमाणन्यायात् प्रव्रज्योपदेशार्थ धर्मश.........दिति । 15 अन्यथा करणे नियम्येत । दी......[5A] प्रजाविप्लवनिषेधार्थमाह ।* वानप्रस्थादन्यः प्रव्रजितभावः संजातादन्यः संघः सामुत्थायिकादन्यः समयानुबंधो वा नास्य जनपदमभिनिवेशेत ॥ [२.१.२९] वानप्रस्था[दन्यः प्रव्रजि]"तभावः । श्रमणसौगतादिः [1] सजातादन्यः 20 संघो बहूनामेकीभावः सहोत्पन्नानामेव तस्मादन्यः संघः श्रेणीबंधः । सामुत्थायिकादन्यः समयानुबंधः । सम्यगुत्थानं धर्मार्थ[मिति स]"मुत्थायस्तेन चरतीति । सेतुबंधतडागाद्यर्थः समयानुबंधस्तस्मादन्यः चौर्यादिसमयानुबंधो नास्य जनपदमुपनिवेशेत । अयं निवेशविषयो नियमः । आगतवस्तु.........[पा]"पंडादयो राज्ञानुज्ञाताः प्रविशंत्यन्यथोदास्थितपरिव्राजकाश्रमादिपाषंडानामुपादानं व्यर्थं स्यात् । श्रेण्याः सेनांगत्वं च हीयते । । कोशवृद्ध्यर्थमाह ।* न च तत्रा[रामा] विहारार्था वा शालाः स्युः। नटनर्तकंगायनवादकवाग्जीवनकुशीलवा वा न कर्मविघ्नं कुर्युरिति ॥ [२.१.३०] . न च अ(त?)त्र निवेशे आरामाः विलासैरारमंते कर्षका इति । छायामात्रो"पयोगिनस्तु स्युः । विहारार्था वा शाला द्यूतादिक्रीडार्थाः शाला न स्युः । कर्षणे विह-३॥ रणात् कर्मविघ्ने कोशावृद्धिरिति भावः । नटादयः प्रतीतास्ते च कृषिकर्मविनं प्रेक्षाणा]"दिभिर्न कुर्युरिति । SJG व्यवायः। २ Jv.l. S प्रव्रजेदावृश्चय धर्मस्वान्। Sv.l. प्रव्रजेदापृच्छय धर्मस्थान् । ३G सु। ४ Jv.1. GS य', TSv.1. यि. ५SJ राम विहारार्थाः । Gरामा विहारार्थाः। Sv.1. रामा। ६JG वा dropped । ७SJG न । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118