________________
कौटलीयराजसिद्धान्त टीका
अष्टशतग्रामसमाहारस्य मध्ये चतुर्दिशं द्वे द्वे ग्रामशते निवेश्य तन्मध्ये स्थानीय समुदायव्यवहारस्थानाय हितमिति । तथैव चतुःशतग्राम्या मध्ये द्रोणमुखं । यथा द्रोणमुखं चतुराढकोपलक्ष्यमेवं ग्रामशतचतुष्टयोपलक्षितं । तद्वद् द्विशतग्राम्याः [का] ' टिकमिति रूढिसंज्ञा । दशग्रामीसंग्रहेणेति । दश दश ग्रामाः " (7) संगृह्यते येन मुख्यग्रामेणासौ संग्रह एवं स्थानीयस्य द्वे द्रोणमुखे चत्वारि कार्वदिकानि । अशीतिः संग्रहाः । अनेन विभागेन जनपदनिवेशः कार्यः ।
पालनार्थमाह । *
(5)
अंतेष्वंतपालदुर्गाणि जनपदद्वाराण्यंतपालाधिष्ठितानि स्थापयेत् । तेषामंतराणि वागुरिकशब " रपुलिंदचंडालारण्यचरा रक्षेयुरिति ।। [२.१.६] अंतेषु जनपदस्य चतुर्दिशं । अंतपालदुर्गाणि जनपदरक्षाक्षमाणि । जनपद- 10 द्वाराण्यन्यतः प्रवेशनिर्गमयोर्निषेधात् । अंतपालैः प्रबलबलयुक्तैरधिष्ठितानि स्थापयेत् । तेषां चतुर्णां द्वाराणामंतराणि वागुरा मृगबंधार्थं जालं तेन व्यवहरंतीति वागुरिका व्याधाः । शबराः किंचिज्जनपदभाषाभिज्ञा वनेचराः । [2B] पुलिंदास्तु भाषानभिज्ञाः। चंडालाः प्रतीताः । अरण्यचराः सर्व्वग्रहादयः । ते रक्षेयुः प्रवेशनिर्गमप्रतिषेधं कुर्युरित्यर्थः ।
(10)
धर्म्मोद्देशेन भूमिदानमाह । *
ऋत्विगाचार्यपुरोहितश्रो "त्रियेभ्यो ब्रह्मदेयान्यदंडकराण्यभिरूपदायादकानि प्रयच्छेदिति ॥ [२.१.७]
ऋत्विजः शांतिगृहाधिकृताः षोडश । आचार्या विद्यानामुपाध्यायाः । पुरोहितः प्रतीतः । श्रोत्रियारछंदोध्यायि " नः स्नातकास्तेभ्यो । ब्रह्मदेयानि । तदभिधानक्षेत्राण्यदंड - 20 कराणि । अभिरूपदायादकानि । यस्मै दत्तं तदनुरूप एव दायादो भवितुमर्हतीत्यर्थः । प्रकर्षेण यच्छेदपुनर्वि" " लोपाय ।
अर्थोद्देशानाह । *
अध्यक्षसंख्यायकादिभ्यो गोपस्थानिकानीकैस्थचिकित्सकाश्वदमकजंघाकारिकेभ्यैश्च विक्रयाधानवजनीति ॥ [२.१.८]
SJ ण्या, Sv. 1. ण्यं । २ SJG दायकानि । ३ Sv. 1. स्थानिनानीक | SJG अंधारिके, SGv. 1. जंघालके । ५ SJC वर्ज ।
15
अध्यक्षाः समाहर्तादयः । (*) संख्यायका गणितज्ञा आदिग्रहणाद्रूपदर्शकनीवीग्राहकोत्तराध्यक्षाः । गोपो विंशतिकुलीं विंशतिग्रामीं वा गोपायतीति । स्थानिको गोपानामेवाधिष्ठातृस्थाने " नियुक्तः । अनीकस्थाः प्राधान्याद्धस्तिन एवानीकं तद्विनयाधानाय तत्र तिष्ठतीत्यनीकस्था हस्तिशिक्षाविदः । चिकित्सका नरहस्त्यश्वादिभिषजः । अश्वदमकाः शालिहोत्रवि ' दोश्वानां विनयकर्तारः । जंघाकारिका दीर्घाध्वगा लेखहारका - 30
Jain Education International
For Private & Personal Use Only
25
www.jainelibrary.org