Book Title: Anuyogdwar Sutram Tika
Author(s): Haribhadrasuri,
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअनु: वस्तुसंहतिरिति भावः, इयमानुपूर्वी दशविधा--दशप्रकाराः प्रज्ञप्तास्तद्यथा 'नामानुपूर्वी' त्यादि, वस्तुतो भावितार्थत्वात्सूत्रसिद्धमेव तावद्यावत् आनुपूर्वी भेदाः हारि.वृत्ती उवणिहिया य' ( 72--51) ' अणोवणिहिया य' तत्र निधानं निधिया॑सो विरचना निक्षेपः प्रस्तावः स्थापनेति पर्यायाः, तथा | च लोके--निधेहीदं निहितभिदभित्यर्थे निक्षेपार्थो गम्यते, उप-सामीप्येन निधानमुपनिधिः--विवक्षितस्यार्थस्य विरचनायाः प्रत्यासन्नता, उप निधिः प्रयोजनमस्या इति प्रयोजनार्थे ठक् औपनिधिकी, एतदुक्तं भवति-अधिकृताध्ययनपूर्वानुपूादिरचनाश्रयप्रस्तारोपयोगिनी औपनिधिडाकीत्युच्यते, न तथा अनापतिधिकी, 'तत्थ ण' मित्यादि, तत्र याऽसावोपनिधिकी सा स्थाया--सांन्यासिकी तिष्ठतु तावद् अल्पतरवक्तव्यत्वा-14 त्तस्याः, किंतु यत्रैव बहु वक्तव्यमस्ति तत्र य: सामान्योऽर्थः सोऽन्यत्रापि प्ररूपित एव लभ्यत इति गुणाधिक्यसंभवात् सैव प्रथममुच्यत इति, आह च सूत्रकार:- तत्थ ण' मित्यादि, तत्र याऽसावनौपनिधिकी सा नयवक्तव्यताश्रयणात् द्रव्यास्तिकनयमतेन द्विविधा प्रज्ञप्ता, नगमव्यवहारयोः संग्रहस्य च, अयमत्र भावार्थ:-इहौधतः सप्त नया भवन्ति, नैगमादयः, उक्तं च-नैगमसंग्रहव्यवहारऋजुसूत्रशब्दसमभिरूद्वैवंभूता नया: ' एते च नयद्वयेऽवस्थाप्यन्ते-द्रव्यास्तिकः पर्यायास्तिकश्च, तत्राद्यास्त्रयो द्रव्यास्तिकः, शेषाः पर्यायास्तिक इति, पुनः द्रव्यास्ति कोऽप्यौघतो द्विभेदः-अविशुद्धो विशुद्धश्च, अविशुद्धो नैगमव्यवहारौ विशुद्धः संग्रह इति, कथं ?, येन नैगमव्यवहारौ कृष्णाद्यनेकगुणाधिदिष्ठितं त्रिकालविषयं अनेकभेदस्थितं नित्यानित्यं द्रव्यमित्येवंवादिनी, संग्रहस्तु परमाण्वादिसामान्यवादीत्यलं विस्तरेण / 'से किं त' मित्यादि ||अत्राप्यल्पवक्तव्यत्वात् संग्रहाभिधानं पश्चादिति, पञ्चविधाः प्रज्ञप्तास्तद्यथा 'अर्थपदपरूपणते ' त्यादि, (73-53) तत्र अर्यत इत्यर्थः 18 तयुक्तं-तद्विषयं तदर्थ वा पदं अर्थपदं तस्य प्ररूपणा-कथनं तद्भावोऽर्थपदमरूपणता, संज्ञासंझिसम्बन्धप्ररूपणतेत्यर्थः, तथा भंगसमुत्की-51 I // 31 // दिानता, इहार्थपदानामेव समुदितविकल्पकरणं भंगः भंगस्य भंगयोः भङ्गानां वा समुत्कर्त्तिनं-उच्चारणं भंगसमुत्कीर्तनं तद्भाव इति समासः, XXX For Private and Personal Use Only

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128