Book Title: Anuyogdwar Sutram Tika
Author(s): Haribhadrasuri,
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्ञाननयः 15555 श्रीअनुच्य ते तदा स घटः तद्बाचकश्च शब्दः, अन्यदा वस्त्वन्तरस्येव चेष्टाऽयोगादघटत्वं, तद्ध्वनेश्चावाचकत्वमिति गाथार्थः / इत्थं तावदुक्ता नयाः, हारि वृत्तात भेदप्रभेदास्तु विशेषतादवसेयाः / साम्प्रतं एत एव ज्ञानक्रियाधीनत्वात् मोक्षस्य ज्ञानक्रियानयद्वयान्तर्भावद्वारेण समासत: प्रोच्यन्ते, ज्ञाननयः // 126 // है | क्रियानयश्च, तत्र ज्ञाननयदर्शनमिद-ज्ञानमेव प्रधानं ऐहिकामुध्मिकफलप्राप्तिकारण, युक्तियुक्तत्वात् , तथा चाह-'णायंमि' ति (*139-267) ज्ञाते-सम्यक् परिच्छिन्ने गोहितव्वे'त्ति ग्रहीतव्ये उपादेये अगिहियव्वमि' त्ति अग्रहीतव्ये, अनुपादेये हेये इत्यर्थः, चशब्दः खलूभयोग्रहीतव्याग्रही| तव्ययोतिव्यत्वानुकर्षणार्थः, उपेक्षणीयसमुच्चयार्थो वा, एवकारस्त्ववधारणार्थः, तस्य चैवं व्यवहितः प्रयोगो द्रष्टव्यः-ज्ञात एव ग्रहीतव्ये अग्रहीतव्ये वा, तथोपेक्षणीये च ज्ञात एव नाज्ञात, 'अत्थीम'त्ति अर्थे ऐहिकामुष्मिके, तत्र ऐहिकः ग्रहीतव्य: सक्चन्दनांगनादिः, अग्रहीतव्यो विषशस्त्रकण्टकादिः,उपेक्षणीयस्तृणादिः, आमुष्मिको ग्रहीतव्यः सम्यग्दर्शनादिरग्रहीतव्यो मिथ्यात्वादिरुपेक्षणीयो विवक्षयाऽभ्युदयादिरिति, तस्मिन्नर्थे 'यतितव्य| मेवेति अनुस्वारलोपात् यतितव्यमेवं-अनेन प्रकारेणैहिकामुष्मिकफलप्राप्त्यार्थना सत्वेन प्रवृत्त्यादिलक्षणः प्रयत्नः कार्य इत्यर्थः, इत्थं चैतदंगी कर्त्तव्यं, सम्यग्ज्ञाते प्रवतमानस्य फलाविसंवाददर्शनात्, तथा चान्यरप्युक्तं-'विज्ञप्तिः फलदा पुंसां, न क्रिया फलदा मता / मिथ्याज्ञानात्प्रवृ. त्तिस्य, फलासंवाददर्शनात् // 1 // " तथाऽऽमुष्मिकफलप्राप्त्यार्थिनाऽपि ज्ञान एवं यतितव्यं, तथा चाऽऽगमोऽप्यवं व्यवस्थितः, यत उक्त-'पढम नाणं तओ दया, एवं चिट्ठइ सव्वसंजए / अण्णाणी किं काहिति, किं वा नाहिति छेयपावयं // 1 // ' इतश्चैतदेवमंगाकर्तव्य, यस्मातीर्थकरगणधरैरगीतार्थानां केवलानो विहारक्रियाऽपि निषिद्धा, तथा चाऽऽगमः 'गीयत्यो य विहारो बीओ गीयत्थमीसिओ भणिओ / एत्तो | तइय विहारो णाणुण्णाओ जिणवरेहि // 1 // " नह्यन्धेनान्धः समाकृष्यमाणः सम्यक् पन्थानं प्रतिपद्यत इत्यभिप्रायः, एवं तावत् क्षायोपशमिकं ज्ञानमधिकृत्योक्तं, क्षायिकमप्यंगीकृत्य विशिष्टफलसाधकत्वं तस्यैव विज्ञेयं, यस्मादहतोऽपि भवांभोधितटस्थस्य दीक्षाप्रतिपन्नस्योत्कृष्ट 25% ) // 126 // For Private and Personal Use Only

Page Navigation
1 ... 124 125 126 127 128