Book Title: Anuyogdwar Sutram Tika
Author(s): Haribhadrasuri,
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नया श्रीअनु० अनुः ऋजुश्रुतः, शेषज्ञानानभ्युपगमात् , अयं हि नयः वर्तमानं स्वलिङ्गवचननामादिभिन्नमप्येकं वस्तु प्रतिपद्यते, शेषमवस्त्विति, तथाहि-अतीतहारि वृत्ता | मेष्यं वा न भावः, विनष्टानुत्पन्नत्वाददृश्यत्वात् खपुष्पवत् , तथा परकीयमप्यवस्तु निष्फलत्वात् खपुष्पवत् , तस्माद्वर्तमानं स्वं वस्तु, तच्च न ||125 // x लिङ्गादिभिन्नमपि स्वरूपमुज्झति, लिङ्गभिन्नं तटस्तटी तटमिति, वचनभिन्नमापो जलं, नामादिभिन्नं नामस्थापनाद्रव्यभावा इति, उक्त ऋजुसूत्रः। इच्छति-प्रतिपद्यते, शेषमवस्त्विति, तथाहि-अतीतमेष्यं वा न भावः / विशेषिततर-नामस्थापनाद्रव्यविरहेण समानलिंगवचनपर्यायध्वनिवाच्येन च प्रत्युत्पन्नं-वर्तमानं, यः कः ?-'शप् आक्रोशे' शप्यतेऽनेनेति शब्दः तस्यार्थपरिग्रहादभेदोपचारान्नयोऽपि शब्द एव, तथाहि-अयं नामस्थापनाद्रव्यकुंभा न संत्येवेति मन्यते, तत्कार्याकरणात् खपुष्पवत, न च भिन्नलिंगंवचनं, भेदादेव, स्त्रीपुरुषवत् कुटवृक्षवद्, अतो घट: कुंभ इति स्वपर्यायध्वनिवाच्यमेवैकमिति गाथार्थः / 'वत्थूओं' गाहा (*138-264) वस्तुनः संक्रमणं भवति अवस्तु नये समभिरूढे, वस्तुनो-घटा४ ख्यस्य संक्रमण-अन्यत्र कुटाख्यादी गमनं भवति अवस्तु, असदित्यर्थः, नये पर्यालोच्यमाने, कस्मिन् ?-नानार्थसमभिरोहणात् समाभिरूडस्तस्मिन् , | इयमत्र भावना-घट कुम्भ इत्यादिशब्दान भिन्नप्रवृत्तिनिमित्तत्वाद्भिन्नार्थगोचरानेव मन्यते, घटपटादिशब्दानिव, तथा च घटनाद् घटः, विशिष्टचेष्टावानर्थो घट इति, तथा 'कुट कौटिल्ये' कुटनाद् कुटः, कोटिल्ययोगात् कुट इति, तथा 'कुम्भ पूरणे' कुंभनात् कुंभः, कुत्सितपूरणादि त्यर्थः, ततश्च यदि घटाद्यर्थे कुटादिशब्दः प्रपद्यते तदा वस्तुनः कुटादेस्तत्र संक्रांति: कृता भवति, तथा च सति सर्वधर्माणां नियतस्वभावत्वाMIदन्यसंक्रान्त्योभयस्वभावोपगमतोऽवस्तुतेत्यलं विस्तरेण, उक्तः समभिरूढः / 'वंजण' इत्यादि, व्यज्यते व्यनक्तीति व्यजन-शब्द:, अर्थस्तु तद्गोचरः, तच्च तदुभयं-शब्दार्थलक्षणं एवंभूतो नयः विशेषयति, इदमत्र हृदयं-शब्दमर्थेन विशेषयति, अर्थ च शब्देन, 'घट चेष्टाया'मित्यत्र चेष्टया घटचेष्टां(शब्द) विशेषयति, घटशब्देनापि चेष्टां, न स्थानभरणक्रियां, ततश्च यदा योपिन्मस्तकव्यवस्थितश्चेष्टावानर्थों घटशब्देनो AUGUSTOCOCCARऊर / // 125 // For Private and Personal Use Only

Page Navigation
1 ... 123 124 125 126 127 128